________________
चतुर्थं पर्व प्रथमः
सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥२७॥
श्रेयांसजिनचरितम्।
128282828282828282828282828
विस्रब्धीभव तद् राजन् ! गच्छामि विसृजाऽद्य माम् । मनागपि न कालुष्यं विद्यते मम चेतसि ॥ ३४१ ॥ इत्युक्तवन्तं तं दूतं परिरभ्य स्वबन्धुवत् । विरचय्याञ्जलिं राजा विससर्ज प्रजापति : ॥३४२ ॥ अश्वग्रीवान्तिकं दूतः स ययौ कतिभिर्दिनैः । तद्धर्षणकथा त्वग्रे वर्धापकपुमानिव ॥ ३४३ ॥ तदा हि चण्डवेगस्य त्रस्तः सर्पपरिच्छदः । त्रिपृष्ठोदन्तमखिलं शशंसाऽऽगत्य भूपतेः ॥ ३४४ ॥ दूतोऽद्राक्षीद् हयग्रीवमुद्री रक्तलोचनम् । जगत्कवलनोद्युक्तमिव वैवस्वतं स्थितम् ॥३४५॥ मन्ये मद्धर्षणोदन्तो राज्ञो व्यज्ञपि केनचित् । दूतोऽपि निश्चिकायैवमिङ्गितज्ञा हि सेवकाः ॥३४६ ॥ राज्ञा पृष्ट ः स आचख्यौ वृत्तान्तमभितोऽपि तम् । उग्राणां स्वामिनां ह्यग्रे कोऽन्यथा वक्तुमीश्वरः? ॥३४७॥ स्मरन् स्वप्रतिपन्नं च दूत एवं व्यजिज्ञपत् । भक्तोऽहमिव ते देव ! स्वयं राजा प्रजापतिः ॥ ३४८ ॥ यच्चक्रे तत् कुमाराभ्यां सा बालसुलभाऽज्ञता । खिद्यते त्वधिकं तेन कर्मणा स कुमारयो :॥३४९ ॥ अतिशेषे यथा शक्त्या त्वमशेषेषु राजसु । तथाऽतिशेते भक्त्या च प्रजापतिनृपस्त्वयि ॥ ३५० ॥ कुमारदोषेणाऽऽत्मानं स गर्हति चिरं नृपः । त्वच्छासनमुपादत्ताऽदत्त चेदमुपायनम् ॥ ३५१॥ इत्युक्त्वाऽवस्थिते दूते हयग्रीवो व्यचिन्तयत् । दृष्टेकप्रत्यया जज्ञे तस्य नैमित्तिकस्य वाक् ॥ ३५२ ॥ प्रत्ययश्चेद् द्वितीयोऽपि स सिंहवधलक्षणः । भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम् ॥ ३५३ ॥
१विस्रब्धः विश्वासयुक्त। २ तदपमानकथा। ३ वर्धापक:-भाषायाम् 'वधामणी देनारो मनुष्य'। ४ उदन्तःवृत्तान्त : । ५ वैवस्वतः-यमः। ६ निश्चिकाय-निश्चयं चकार । इङ्गितम्-मनोवृति: । ७ स्वप्रतिज्ञामित्यर्थ: । ८ अतिशयवान् असि । अतिशेते-अतिशययुक्तः वर्तते ।
282828282828282828282828284
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥२७॥