________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥२६॥
प्रथमः सर्गः श्रेयांसजिनचरितम् ।
28282828282828282828282828
न घर्षितश्चण्डवेगोऽश्वग्रीवः किन्तु घर्षितः । दूता हि प्रतिरूपाणि प्रभूणां सञ्चरन्त्यमी ॥३२७॥ न यावद् यात्यसौ तावदनुनेयः प्रयत्नतः । यत उत्तिष्ठति शिखी निर्वाप्यस्तत एव हि ॥३२८ ॥ एवं विचिन्त्य पुरुषैः प्रधानस्तं महीपतिः । आनाययदनुनीय वचोभिः प्रेमपेशलैः ॥ ३२९ ॥ चकार सविशेषां च प्रतिपतिं कृताञ्जलिः । कुमारकृतकालुष्यप्रक्षालनजलप्लुतिम् ॥३३०॥ चतुर्गुणं महामूल्यं तस्य च प्राभृतं ददौ । प्रकोपशान्तये शीतोपचारमिव दन्तिनः ॥ ३३१ ॥ ऊचे च राजा यद् वेत्सि यौवनेऽभिनवे सति । कुमारका दुर्ललिताः सामान्यश्रीमतामपि ॥३३२॥ विशेषतो मम स्वामिप्रसादोद्भूतसम्पदा । निरर्गलौ कुमारौ तावदान्तौ वृषभाविव ॥ ३३३ ॥ बढताभ्यामपराद्धं त्वयि यद्यपि मानद ! । दुःस्वप्नमिव विस्मार्य तथाप्येतत् त्वया सखे ! ॥ ३३४ ॥ आवयोरक्षता प्रीतिः सदा सोदरयोरिव । त्याज्या नैकपदे साऽद्य मन्मनोवृत्तिकोविद ! ॥३३५॥ कुमारयोर्दुर्ललितमिदं च भवताऽनघ!। नाश्वग्रीवाय विज्ञाप्यं निकषोऽयं क्षमावताम् ॥३३६ ॥ इति सामसुधावृष्ट्या शान्तकोपहुताशनः । चण्डवेगोऽप्युवाचैवं गिरा स्नेहादचण्डया ॥३३७ ॥ त्वया सह चिरात् प्रेम्णा कोपोऽपि न मया कृतः । राजन् ! क्षन्तव्यमिह किं ? त्वत्पुत्रौ न ममापरौ ॥३३८ ॥ डिम्भानां दुर्नये दण्डो [पालम्भः प्रकीर्तितः । निवेदनं राजकुले नेति लोकेऽपि हि स्थितिः ॥ ३३९ ॥ राज्ञे विज्ञपयिष्यामि नेदृक्षं त्वत्कुमारयोः । कवलः शक्यते क्षेप्तं नाक्रष्टं हस्तिनो मुखात् ॥३४०॥
१शिखी-अग्नि: । निर्वाप्यः - शमनीयः। २ प्रतिपत्ति :- आदरः। ३ निरर्गल:- स्वच्छन्दः। ४'तौ अदान्तौ' इति। * त् पुरास'। ५ अनधः-निर्दोषः । ६ निकषः परीक्षा । ७ डिम्भा:-बालाः ।
28282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां
चरितम्।
॥२६॥