________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २५ ॥
CREDERERER
DE DE DE DE DEDY!
इत्युक्त्वा मुष्टिमुद्यम्य त्रिपृष्ठः प्रपिनष्टि तम् । तावत् तावत् पुरैःस्थायेत्यूचे मुर्शलपाणिना ॥ ३१४ ॥ अलमत्र प्रहारेण कुमार ! नरकीटके । न चपेटा शृगालेषु क्रोशत्स्वपि मृगद्विष: ॥ ३९५ ॥ दूत इत्येष नो वध्यः प्रतीपान्याचरन्नपि । ब्राह्मण्येन द्विजन्मेव विरुपमपि हि ब्रुवन् ॥ ३१६ ॥ तदत्र संहर रुषं पुरुषे परुषेऽपि हि । दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः ॥ ३१७ ॥
इत्युक्तो बलभद्रेण त्रिपृष्ठो मुष्टिमुद्यताम् । करपाशं करीवाऽऽशु संहृत्येत्यादिशद् भटान् ॥ ३१८ ॥ जीवितव्यं विमुच्यैकं रङ्गभङ्गविधायिनः । अस्याऽपहरताऽशेषमपरं दूतपाप्मनः ॥ ३१९ ॥ तमाज्ञया कुमारस्य यष्टिभिर्मुष्टिभिर्भटाः । अताडयन् सारमेयं प्रविष्टमिव वेश्मनि ॥ ३२० ॥ अजहुरशेषं तत् तस्यालङ्करणादिकम् । प्रापितस्य वधस्थानं वध्यस्याऽऽरक्षका इव ॥ ३२९ ॥ प्रहारान् वञ्चयमानः प्राणत्राणकृते चिरम् । क्रीडाकार इवेभस्य सोऽलुठत् पृथिवीतले ॥ ३२२ ॥ परितस्तत्परीवारो मुक्त्वा प्रहरणादिकम् । जीवग्राहं पलायिष्ट भक्ष्यं सन्त्यज्य काकवत् ॥ ३२३ ॥ कुट्टयित्वा रासभवल्लुञ्चित्वा कलविङ्कवत् । विनद्ये विटवत् तं तु कुमारावीयतुर्गृहम् ॥ ३२४ ॥ विदाञ्चकार तत् सर्वं जनश्रुत्या प्रजापतिः । एवं विचिन्तयामास सशल्य इव चेतसि ॥ ३२५ ॥ अहो ! कुमाराभ्यां युक्तं नाऽऽचरितं ह्यदः । कस्याग्रे कथयाम्येतत् स्वेनाश्वेनेव पातितः ? ॥ ३२६ ॥ ★ रः स्थित्वेत्यूचे । १ मुशलपाणि: बलदेव: । २ चपेटा कराघातः । ३ मृगद्विट् सिंहः । ४ ब्राह्मणत्वेन । ५ 'न+ एरण्डपादपः' इति विभाग : ६ सारमेय: कुक्कुरः । ७ जीवग्राहं पलायिष्ट 'जीव लईने भाग्यो' इति भाषायाम् । ८ कलविङ्का :- भाषायाम् 'चकलो' । ९ वाचा अपमानं कृत्वा ।
RERERERERERERERERERERERERES
चतुर्थं पर्व
प्रथमः
सर्गः श्रेयांस
जिन
चरितम् ।
त्रिपृष्ठवासु
देव-अचलबलदेवादीनां चरितम् ।
॥ २५ ॥