________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
सर्गः
॥१८॥
श्रेयांसजिनचरितम् ।
28282828282828282828282828
उद्बुद्धया तयाऽऽख्यातान् स्वप्नान् व्याख्यन्महीपतिः । अर्धचक्री तव सूननं देवि! भविष्यति ॥ २२५ ॥ राज्ञा सद्यः समाहूय पृष्टा नैमित्तिका अपि । स्वप्नांस्तथैव व्याचख्युर्विसंवादो न धीमताम् ॥ २२६ ॥ पूर्णे काले च सा देवी सर्वलक्षणलक्षितम् । अशीतिधनुरुत्तुङ्गं कृष्णाङ्गं सुषुवे सुतम् ॥ २२७ ॥ प्रससाद ककुप्चक्रमुल्ललास वसुन्धरा । जहर्ष च जनः सर्वस्तस्येव नृपतेर्मनः ॥ २२८ ॥ कारागारात् पुरा बद्धान् गोपो गा इव वाटकात् । हृष्टो रिपूनपि रिपुप्रतिशत्रुरथामुचत् ॥२२९ ॥ यथाकामं ददौ सोऽर्थानर्थिभ्यः कामधेनुवत् । कर्तुं स्थानमिवैष्यन्त्या अर्धचक्रधरश्रियः॥॥२३०॥ तथाऽभूदुत्सवः प्राज्यो जने तस्मिन् निरन्तरः । यथा सपुत्रजन्मेव सोद्वाह इव सोऽभवत् ॥ २३१॥ मङ्गल्यपाणयो नार्यो ननृतू राजवेश्मनि । मिथः सङ्घर्षतो ग्रामागमाश्लेषपराः पुर : ॥२३२ ॥ स्थाने स्थाने तोरणानि सङ्गीतानि पदे पदे । अजायन्त पुरे तस्मिन्नभितो राजवेश्मवत् ॥ २३३ ॥ दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः । नाम तस्याकरोत् सूनोरुत्सवेन महीयसा ॥२३४ ॥ लाल्यमानः स धात्रीभी रम्यमाणोऽचलेन च । वासुदेवस्त्रिपृष्ठाख्यो व्यवर्धत शनैः शनैः ॥ २३५ ॥ स बालो बलभद्रेण प्रक्वणत्पादघर्घरिः । अग्रेसरेण चिक्रीड प्रतिकारेण हस्तिवत् ॥ २३६ ॥ लीलयैव महाप्राज्ञ :स उपाध्यायसाक्षिकम् । प्रतिबिम्बमिवाऽऽदर्शो जग्राह सकला : कला :॥२३७॥
१ ककुपचक्रम्-दिशामण्डलम् ।★ चक्र प्रापोच्छ्वासं वसु ॥२ वाटक:- भाषायाम् 'वाडो' । ३ पुत्रजन्म-सहित इव, विवाहसहित इव । उद्वाहः विवाह । ४ पृष्ठम्-भाषायाम् 'पीठ' 'वांसो' । अयं समग्र: श्लोक : 'यदबोचाम' इत्युल्लिख्य अक्षरश: समुद्धतः आचार्यहेमचन्द्रेण अभिधानचिन्तामणिकोशस्वोपज्ञटीकायाम् कां०३ श्लो० ३५१ पृ २७९ ।५. घर्धरिः- भाषायाम् घुघरी ६ आदर्श :- भाषायाम् 'अरिसो' दर्पणः । •'न ममू राजवेश्मनि' इति पाठान्तरः ।
282828282828282828282828288
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥१८॥