________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
282828282828282828282828282
कलीन : सचिवैरात्मरक्षैर्दासजनैर्वताम् । मामिव पुरीदेवीं मातरं तत्र सोऽमुचत् ॥२११॥ भद्राऽपि स्त्रीशिरोरत्नं शीलालङ्करणा सती । देवपूजादिषट्कर्मरता तस्यामवास्थित ॥ २१२ ॥ भक्तिमान् बलदेवोऽपि तत् पोतनपुरं ययौ । यादृशस्तादृशो वाऽपि पूजनीय: पिता सताम् ॥२१३ ॥ शुश्रूषमाणः पितरं पूर्ववत् तत्र चाऽचलः । तस्थौ न पूज्यचरितं चर्चयन्ति मनीषिणः ॥ २१४ ॥ राजाऽपि स्थापयामास तामग्रमहिषीपदे । मृगावतीं मृगदृशं मृगलक्ष्मेव रोहिणीम् ॥२१५ ॥ कियत्यपि गते काले महाशुक्रात् परिच्युतः । विश्वभूतिमुनेर्जीवस्तस्याः कुक्षाववातरत् ॥ २१६ ॥ यामिन्याः पश्चिमे यामे सूचका विष्णुजन्मनः । देव्या ददृशिरे स्वप्नाः सप्तैते सुखसुप्तया ॥ २१७ ॥ तत्राऽऽदौ केसरियुवा कुङ्कमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमवालधि : ॥ २१८ ॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः । क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ २१९ ॥ ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्नहः । उद्दण्डतेजःप्रसरस्त्विषामधिपतिस्ततः ॥ २२०॥ स्वच्छ-स्वादुपयःपूर्णः पुण्डरीकार्चिताननः । सौवर्णघण्टिकः पुष्पमाली कुम्भस्ततोऽपि च ॥२२१॥ नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदञ्चिकल्लोलस्ततः कल्लोलिनीपतिः ॥ २२२ ॥ पञ्चवर्णमणिज्योतिःप्रसरैर्गगनाङ्गणे । विपञ्चितेन्द्रचापश्री रत्नानां सञ्चयस्ततः ॥ २२३ ॥
धूमध्वजश्च निधूमो ज्वालापल्लविताम्बरः । दृशोः सुखकरालोकः सप्तमश्चेति सप्त ते ॥ २२४ ॥ १ आकारधारिणी नगरीदेवीमिव । * मृगनेत्रां मृ संकृ॥२ मृगलक्ष्मा-चन्द्र : ३ दोषा-रात्रि : । ४ त्विट्-कान्ति :, तदधिपतिः सूर्यः । ५ घण्टिकभाषायाम् 'घंटडी'। ६ उदञ्ची-ऊर्ध्वगामी । ७ विपञ्चितम्-विस्तीर्णम् ।८ धूमध्वजः- अग्निः । ९ अम्बरम्-गगनम् । * सुखाक । 4 सप्तके।
YYYYYYYYYYYYYY
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥१७॥