________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १६ ॥
FREDEREREDEREREREREDERERURGI
सुलभं भूमिसाम्राज्यं स्वर्गसाम्राज्यमप्यहो ! । इयं तु दुर्लभा मन्ये बाला हृदयवल्लभा ॥ १९६ ॥ सुरा-ऽसुर-नरेन्द्राणां पुण्येभ्योऽप्यतिशायिभिः । उपस्थितेयं मे पुण्यैर्जन्मान्तरशतार्जितै : ॥ १९७ ॥ एवं विचिन्त्य नृपतिः प्रियालापपुरःसरम् । अङ्कमारोपयामास तां सद्यः प्राणवल्लमाम् ॥ १९८ ॥ अनुरागे स आरोप्य स्पर्शा ऽऽलिङ्गन-चुम्बनैः । तां जरत्कञ्चक्विरैरन्तःपुरमनाययत् ॥ १९९ ॥ पौरलोकान् समाहूय सह प्रकृतिभिस्ततः । लोकापवादरक्षार्थमपृच्छत् पृथिवीपतिः ॥ २०० ॥ मदीयभूमौ ग्रामेषु पुरेष्वन्यत्र वा क्वचित् । यत् समुत्पद्यते रत्नं तत् कस्येति निवेद्यताम् ॥ २०१ ॥ लोकोऽप्यूचे भवद्भूमौ यद् रत्नं जायते क्वचित् । तस्य स्वामी भवानेव नान्यो भवितुमर्हति ॥ २०२ ॥ इति तं निर्णयं स त्रिर्गृहीत्वा पृथिवीपतिः । तेषां द्राग् दर्शयामास निजकन्यां मृगावतीम् ॥ २०३ ॥ इत्युवाच च तान् भूयः कन्यारत्नमिदं हि मे । इदानीं परिणेष्यामि स्वयं युष्मदनुज्ञया ॥ २०४ ॥ इत्युक्ते लज्जिताः पौरा ययुर्निजनिजं गृहम् । गान्धर्वेण विवाहेन पर्यणैषीच्च तां नृपः ॥ २०५ ॥ स्वसुतायाः पतिरभूत् तेन तस्य महीपतेः । नाम प्रजापतिरिति पप्रथे पृथिवीतले ॥ २०६ ॥ नवं कुलकलङ्कं तं हसनीयं जनेऽखिले । महालज्जाकरं पत्युः श्रुत्वा भद्राऽत्यलज्जत ॥ २०७ ॥ सहाऽचलेन पुत्रेण साऽचालीद् दक्षिणापथे । श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥ २०८ ॥ मातुः कृते दक्षिणस्यां विश्वकर्मेव नूतनः । माहेश्वरीति नगरीमस्थापयदथाऽचलः ॥ २०९ ॥ तां च श्रीद इवाऽयोध्यामाहृत्याऽऽहृत्य सर्वतः । हिरण्यैः पूरयामास बलदेवोऽचलाभिधः ॥ २१० ॥ १ जरत्कञ्चुकिन:- वृद्धकञ्चुकिनः; कञ्चुकी- अन्तःपुररक्षकः । २ प्रकृति प्रधानमण्डलम् । ३ अयोध्यानगरीम् ।
CREDERERERERERERERERERERERE
चतुर्थं पर्व
प्रथमः सर्गः श्रेयांस
जिन
चरितम् ।
त्रिपृष्ठवासु
देव-अचलबलदेवादीनां चरितम् ।
॥ १६ ॥