________________
चतुर्थं पर्व
प्रथमः
सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥१५॥
श्रेयांसजिनचरितम् ।
88888888888888888888888888
अङ्काद” सञ्चरन्ती तापसानां मृगीव सा । वृद्धिमासादयामास निष्प्रत्यूहं मृगेक्षणा ॥ १८३ ॥ तया कटिस्थया धात्र्यो विचरन्त्यो गृहाणे । गृहस्थूणा इव रत्नशालिभञ्ज्याश्चकाशिरे ॥१८४ ॥ बाल्यं क्रमेण लचित्वा प्रपेदे साऽथ यौवनम् । स्मरोज्जीवनजीवातु वपुर्लक्ष्मीविशेषकम् ॥ १८५ ॥ तस्या वक्त्रं दन्तपत्रमिवेन्दोर्भूलताच्छलात् । नेत्रे च कृष्णधवले सभृङ्गे इव कैरवे ॥१८६ ॥ कण्ठश्च लटभो नालमिव वक्त्रसरोरुहः । पञ्चेषोरिव तूणीरौ पाणी च सरलाङ्गली ॥१८७ । वपुर्लावण्यसरितश्चक्रवाकाविव स्तनौ । मध्यं कृशतरं भूरि स्तनभारश्रमादिव ॥१८८ ॥ क्रीडावापी स्मरस्येव नाभिर्गाम्भीर्यशालिनी । तटी रत्नाचलस्येव श्रोणिभित्तिर्गरीयसी ॥१८९॥ ऊरू च कदलीस्तम्भविभ्रमौ क्रमवर्तुलौ । पादौ सरलजङ्घाकावुन्नालनलिने इव ॥१९० ॥ एवं विभक्तावयवा नव्यया यौवनश्रिया । अपि विद्याघरस्त्रीणामधिदेवीव साऽशुभत् ॥ १९१ ॥ यौवनश्रीरवर्धिष्ट मृगावत्या यथा यथा । भद्राया ववृधे चिन्ता तद्वरार्थे तथा तथा ॥१९२॥ चिन्ता ममेव राज्ञोऽपि वरार्थेऽस्यां भवत्विति । तां प्रास्थापयदन्येधुर्भद्रादेवी तदन्तिके ॥१९३ ॥ स्मरेषुजातवैधुर्यात् तां पुत्रीत्यविदन्निव । विचिन्तयामास रिपुप्रतिशत्रुरिदं हदि ॥ १९४ ॥ अहो ! किमपि सौन्दर्यं जैत्रमस्त्रं मनोभुवः । जगत्रयस्त्रैणजयलीलादुर्ललितं तनो : ॥ १९५ ॥
१ निष्प्रत्यूहम् - निर्विघ्नम् । २ स्थूणा-स्तम्भः । शालिभञ्जी-पुत्तलिका । ३ जीवातु:- जीवनौषधम् । ४ विशेषकम् - तिलकम् । ५ इन्दो : दन्तपत्रम्, भाषायाम् दांतियो । ६ भ्रमरसहिते । ७ लटभः-सुन्दरः । ८ नालम् कमलदण्ड इव । ९ 'पाणी' प्रथमाद्विवचनम् । १० श्रोणि:-कटिः। ११ क्रमेण गोलाकारो । १२ उन्नालनलिने-ऊर्ध्वनालयुक्ते कमले। नालम् - कमलदण्डः । १३ विजयकारि । १४ स्त्रैणम्-स्त्रीसमूहः ★ जये युवत्या ललि' संबृ० । 'जये अस्या दुर्ल० सं.॥
28282828282828282828282828.
त्रिपृष्ठवासु देव-अचलबलदेवादीनां
चरितम्।
॥ १५ ॥