________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांसजिन
चरितम् ।
282828282828282828282828286
दन्तावलश्चतुर्दन्तः स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्त्रान्तरभ्रान्तरिव चन्द्रमाः ॥ १७० ॥ शरदभ्रमिवाऽऽवर्त्य निर्मितो निर्मलद्युतिः । ककुद्यानुच्चककुदोऽथ गर्जनृजुवालधिः ॥१७१ ॥ निशाकरः कराङ्करैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥१७२॥ ततश्च पौरून्निद्रैर्म गुञ्जन्मधुव्रतैः । पूर्णं सरः शतमुखीभूय गायदिवोच्चकै ः ॥ १७३ ॥ स्वामिन्नमीषां स्वप्नानां फलं किमिति शंस मे ? । प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥१७४ ॥ राजाऽपि व्याजहाराथ देवि! देव इव श्रिया । लोकोत्तरबलो भावी बलभद्रस्तवाऽऽत्मजः ॥१७५ ॥ श्वेतरश्मिमिव प्राची श्वेतवर्णं महाभुजम् । अशीतिधनुरुत्तुङ्गं कालेनाऽसूत सा सुतम् ॥ १७६ ॥ पुत्ररत्ने समुत्पन्ने स तत्र पृथिवीपतिः । चक्ररत्ने चक्रवर्तीवोत्सवं व्यधितोच्चकैः ॥१७७॥ शुभेऽहनि शुभे चन्द्रे विच्छर्देन महीयसा । चकाराऽचल इत्याख्यां तस्य सूनोर्महीपति : ॥१७८ ॥ दिने दिने वपुच्छायां वितन्वन्नधिकाधिकाम् । अवर्धत स धात्रीभि : सारणीभिरिवाङिपः ॥१७९ ॥ अचलस्य तु जातस्य गते काले कियत्यपि । भद्रा देवी दधौ गर्भं प्रसूनमिव केतकी ॥१८० ॥ सर्वलक्षणसम्पूर्णां पूर्णे काले नृपप्रिया । असूत सा दुहितरं जाह्नवीव सरोजिनीम् ॥१८१॥ तस्या मृगाडूवक्त्राया मृगशावकचक्षुषः । मृगावतीति विदधे नामधेयं महीभुजा ॥ १८२ ॥
१ दन्तावल:- हस्ती । २ अभान्तर - अभमध्ये चन्द्र इव । ३ ककुमान् - बलीवर्दः । उच्चककुद:- महास्कन्ध: । ४ वालधि :- पुच्छम्। ५ उन्निद्रम्-विकसितम्। ६ शतमुखैः संयुक्तं भूत्वा । ७ अर्ह :- योग्य :1८ लोकोत्तरबल:- अलौकिकबल : । ९ विच्छर्द :वैभवः । १० छाया-कान्ति: । ११ प्रसूनम्-कुसुमम् । १२ शावक:- शिशुः ।
28282828282828282828888888
त्रिपृष्ठवासु देव-अचलबलदेवादीनां
चरितम्।
॥१४॥