________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व प्रथमः
सर्गः
॥१३॥
श्रेयांसजिनचरितम् ।
282828282828282828282828286
अनेन तपसोग्रेण मृत्यवेऽस्य भवान्तरे । भूयासं भूरिवीर्योऽहं निदानं चेति सोऽकरोत् ॥ १५७ ॥ सम्पूर्णकोटिवर्षायुरनालोच्य च तन्मृतः । महाशुक्रे विश्वभूतिरुत्कृष्टायुः सुरोऽभवत् ॥ १५८ ॥ इतश्च पोतनपुरं पुरमस्त्युच्चगोपुरम् । अपाग्भरतवर्षार्धभुवो मुकुटसन्निभम् ॥ १५९॥ अभूत् पुरे तत्र रिपुप्रतिशत्रुर्महीपतिः । शोभमानो गुणैस्तैस्तैरहर्पतिरिवांशुभिः ॥ १६० ॥ षाडगण्येन स षटखण्ड्या भरतक्षेत्रवद् बभौ । उपायैरपि चतभिर्दन्तैरिव सरद्विपः ॥ १६१॥ स सिंह इव शौर्येण स्तम्बेरम इवौजसा । कन्दर्प इव रूपेण धिया गुरुरिवाऽभवत् ॥ १६२ ॥ अवनीसाधनाविधावतिप्रकटपाटवौ । मिथो धी-विक्रमौ तस्य व्यभूष्येतां भुजाविव ॥१६३ ॥ भनेति नाम्ना महिषी भद्राणां भद्रमास्पदम् । बभूव भूपतेस्तस्य भूरिवाऽऽत्तशरीरिका ॥१६४ ॥ पतिभक्त्या कवचिता यामिकीव ररक्ष सा । अनारतं जागरूका शीलं रत्ननिधानवत् ॥१६५॥ अक्ष्णोः सुधावर्तिरिव राज्यलक्ष्मीरिवाङ्गिनी । मूर्ता कुलव्यवस्थेव चकासामास साऽनिशम् ॥ १६६ ॥ च्युत्वा सुबलजीवोऽपि स विमानादनुत्तरात् । अन्यदा तु महादेव्यास्तस्याः कुक्षाववातरत् ॥१६७॥ ददर्श सखसप्ता च यामिन्यां पश्चिमे क्षणे । चतुरः सा महास्वप्नान् सूचकान् बलजन्मनः ॥१६८॥ तदैव परमानन्दजनिताभिभवादिव । दूरं गतायां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ॥१६९॥
१ गोपुरम् -द्वारम् । २ स्तम्बेरमः हस्ती । ३ गुरु:-वाचस्पतिः । ४ आत्तशरीरिका-पट्टराज्ञीशरीरधारिणी भू:- पृथिवी इव । ५ कवचयुक्ता । ६ यामिकी-भाषायाम् 'पहेरेदार'।७ सुधाया वर्तिः इव । वर्ति : भाषायाम् 'वाट-दीवेट' ।८ परमानन्देन जनितात् पराजयाद् इव निद्रा दूरं गता।
28282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥१३॥