________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांस
जिन
चरितम्।
RESURUKURUKURUKURUKURUKURE
पार्शन्ति भवकारायां स्वजनस्नेहतन्तवः । जन्तवस्तैर्हि मुह्यन्ति लालाभिरिव मर्कटा : ॥१४४ ॥ किञ्चिन्नातः परं वाच्यश्चरिष्यामि तपः परम् । परलोके सह याति सहायीभूय तत् खलु ॥१४५॥ इति तेनोदिते राजा सानुतापो ययौ गृहम् । विश्वभूतिर्मुनिरपि व्यहार्षीद् गुरुणा सह ॥१४६ ॥ षष्ठा-ऽष्टमादिनिरतो गुरुशुश्रूषणोद्यतः । क्रमात् सोऽधीतसूत्रार्थो भूयांसं कालमत्यगात् ॥ १४७॥ गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः । स विहर्तुं प्रववृते ग्रामा-ऽऽकर-पुरादिषु ॥१४८ ॥ विविधाभिग्रहपरो विहरन्नेकदा च सः । विश्वभूतिर्महासाधुर्जगाम मथुरां पुरीम् ॥१४९ ॥ पैतृष्वस्त्रेयीमुद्वोढुं मथुराराजकन्यकाम् । विशाखनन्दी तत्राऽऽगात् तदा च सपरिच्छद : ॥१५०॥ विश्वभूतिश्च मासान्तपारणाय परिभ्रमन् । विशाखनन्दिशिबिरं निकषा समुपाययौ ॥१५१॥ विशाखनन्दिने यान्तं पुरुषास्तमदर्शयन् । विश्वभूतिकुमारोऽसाविति व्याहारिणो मुहुः ॥१५२ ॥ विशाखनन्दिनो रोषः सद्यस्तद्दर्शनादभूत् । गवैकया च पर्यस्तो विश्वभूतिस्तदाऽपतत् ॥१५३ ॥ विशाखनन्दी हसित्वा विश्वभूतिमदोऽवदत् । कपित्थपातनं स्थाम तत् क्वेदानीमहो ! गतम् ? ॥१५४॥ विशाखनन्दिनं दृष्ट्वा विश्वभूतिरमर्षण : । गृहीत्वा श्रृङ्गयोस्तां गां भ्रमयामास पूलवत् ॥१५५ ॥ ततो निवृत्तो दध्यौ च विश्वभूतिरिदं हदि । मय्यद्यापि सरोषोऽयं निःसङ्गेऽपि हि दुर्मनाः ॥१५६॥
28RCARUARURXR&R®R&RRURY
त्रिपृष्ठवासुदेव-अचलवलदेवादीनां चरितम्।
॥१२॥
१बन्धनरूपा भवन्ति । २ लाला भाषायाम् 'लाळ' इति । 'मर्कट' इति भाषायाम् करोळियो। ३ पितृष्वसुः पुत्रीम् । पितृष्वसा भाषायाम् 'फई'इति। ४ समीपम्। ५ पर्यस्तः - आघातं प्रापितः । ६ स्थाम-पराक्रमः। ७अमर्षणः असहनशीलः। ८ पूल: भाषायाम् पूलो इति ।