________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥८॥
सर्गः
श्रेयांसजिनचरितम् ।
28282828282828282828282828.
सुरा-ऽसुर-नृकुमारैः क्रीडन् कालेन शैशवात् । आरोहद् यौवनं स्वामी स्यन्दनादिव कुञ्जरम् ॥ ८९॥ अशीतिधनुरुत्तुङ्गः स्वामी पित्रुपरोधतः । पर्यणैषीद् राजकन्या भववैराग्यभागपि ॥९०॥ जन्मतो वर्षलक्षाणां गतायामेकविंशतौ । पितुः प्रार्थनया नाथः पृथ्वीभारमुपाददे ॥९१॥ द्विचत्वारिंशतं वर्षलक्षाणि क्षोणिमण्डलम् । ररक्षाऽक्षीणमहिमा श्रेयांसः श्रेयसां निधि : ॥९२ ॥ स्वामी भवविरक्तोऽथ दीक्षामादित्सुरुत्सुकः । प्रैर्यतोपेत्य शकुनैरिव लौकान्तिकामरैः ॥१३॥ शक्रादेशात् कुबेरेण प्रेरितैर्जुम्भकामरैः । अर्थेन पूर्यमाणेन स्वाम्यदाद् दानमाब्दिकम् ॥९४ ॥ वत्सरान्ते समेत्येन्द्रैजिनेन्द्रस्य व्यधीयत । दीक्षाभिषेकः कर्मारिविजयायेव सत्वरम् ॥ ९५ ॥ दिव्याङ्गरागलिप्ताङ्गो रत्नभूषणभूषितः । मङ्गल्यदिव्यवसनो मूर्तिस्थमिव मङ्गलम् ॥९६ ॥ विनीतेनेव भृत्येन दत्तबाहुर्बिडौजसा । अपरेन्द्ररपि च्छत्र-चामरादिधरैर्वृत :॥९७॥
आरुह्य रत्नैर्विमलां शिबिकां विमलप्रभाम् ।समावृतः सुर-नरैः। सहस्त्राम्रवणं ययौ ॥९८॥ त्रिभिर्विशेषकम्॥ शिबिकातः समुत्तीर्य तत्रौज्झद् भूषणादिकम् । देवदूष्यं देवराजन्यस्तं स्कन्धे दधार च ॥ ९९ ॥ फाल्गुनस्य त्रयोदश्यां कृष्णायां श्रवणे प्रभुः । षष्ठेनोदेखनत् केशान् पूर्वाह्ने पञ्चमुष्टिना ॥१०॥ केशान् शक्रः समादाय स्वोत्तरीयाञ्चलेन तान् । चिक्षेप च क्षीरनिधौ समीरेण इव क्षणात् ॥१०१ ॥ निषिद्धे वज्रिणा मुष्टिसंज्ञया तुमुले ततः । प्रभुश्चारित्रमारोहद् विश्वाभयविभावनम् ॥१०२ ॥
१ विवाहं चकार । २ प्रैर्यत उपेत्य प्रैर्यत - प्रेरणां चकार ॥ ३ वार्षिकम् । ४ तत्याज। ५ उत्पाटयामास। ६ पवन :। ७ सर्वेषाम् अभयकारकम्, जगतो वा अभयकारकम् ।
282828282828282828282828286
श्रेयांसजिनप्रव्रज्या।
॥८
॥