________________
त्रिषष्टिशलाकापुरुषचरिते ॥७॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
828282828282828282828282828
सर्वकल्याणकश्रेष्ठं जन्मकल्याणकं तव । विश्राणयतु कल्याणं कल्याणीभक्तिके मयि ॥७५ ॥ स्त्रपयाम्यथ चर्चामि ? किमर्चामि ? स्तवीमि किम् ? । त्वामितीश ! न तृप्ति त्वदाराधनकर्मणि ॥७६ ॥ वृषः कुतीर्थिकव्याघ्रत्रासितस्त्वयि रक्षके। अमुष्मिन् भरतक्षेत्रे स्वैरं चरतु सम्प्रति ॥७७ ॥ अद्य स्वयमधिष्ठाय हृदयायतनं मम । दिष्ट्या देवाधिदेव ! त्वं सनाथीकुरुषेतराम् ॥७८ ॥ न तथा भूषणं नाथ ! ममैभिर्मुकुटादिभि: । यथा शिरोऽग्रलुठितैस्त्वत्पादनखरश्मिभिः ॥७९॥ न तथा त्रिजगन्नाथ ! स्तूयमानस्य मागधै : । मम प्रमोदो भवति त्वद्गुणान् स्तुवतो यथा ॥८० ॥ रत्नसिंहासनस्थस्य न हि मध्येसभं तथा । उच्चैस्त्वं त्वत्पुरो भूमिनिषण्णस्य यथा मम ॥ ८१ ।। स्वराज्यसम्भवामेतां न काङ्क्षामि स्वतन्त्रताम् । परतन्त्रश्चिरं भूयां नाथेन भवता प्रभो ! ॥ ८२ ॥ इति स्तुत्वा गृहीत्वेशं गत्वाऽर्हन्मातुरन्तिके । संहृत्याऽर्हत्प्रतिच्छन्दा-ऽवस्वापिन्यौ न्यधाद्धरिः ॥ ८३ ॥ स्वामिसूतिगृहाच्छको मेरुशैलादथापरे । इन्द्रा जग्मुर्यथास्थानं विसृष्टा इव सेवका :॥८४ ॥ महान्तमत्सवं चक्रे विष्णुराजोऽप्यथ प्रगे। तदा प्रमोदो मेदिन्यामेकच्छत्र इवाभवत् ॥८५॥ जिनस्य मातापितरावुत्सवेन महीयसा । अभिधां श्रेयसि दिने श्रेयांस इति चक्रतुः ॥८६ ॥ धात्रीभिः शक्रादिष्टाभिाल्यमानोऽथ पञ्चभिः । पिबन् शक्राऽऽहितसुधं स्वाष्ठं स्वाम्यवर्धत ॥८७॥ ज्ञानत्रयधरोऽपीशो मौग्ध्यं बाल्योचितं दधौ । चण्डांशरपि न प्रातश्चण्डतामवलम्बते ॥८८ ॥
१ मङ्गलमयभक्तियुते । २ वृषो धर्मः बलीवर्दश्च । ३ उच्चस्त्वम्-उच्चस्थानस्थितत्वम् । ४ स्वर्गराज्यम् । ५ भवेयम्। ६ संहृत्य-अपहृत्य । ७ सर्वत्र समानः-एकरूपः । ८ यत्र इन्द्रेण सुधा संक्रांता । ९ सूर्य :।
8282828282828282828282828286
नामकरणम्।
॥
७॥