________________
त्रिषष्टिशलाकापुरुषचरिते ॥६॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांस
जिन
चरितम् ।
28282828282888888888888888
पर्वतायुर्भवेत्याशी:पूर्वकं स्वामिकर्णयोः । ताः समास्फालयामासू रत्नपाषाणगोलकौ ॥६१॥ अर्हदर्हज्जनन्यौ तास्ततः सूतिगृहेऽनयन् । तयोरनतिदूरेऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥६२ ॥ अथ शक्रः समागत्य स्वामिनः सूतिकागृहम् । पालकेन विमानेन प्रदक्षिण्यकृत द्रुतम् ॥६३॥ ऐशान्यां पालकं मुक्त्वा सूतिवेश्म प्रविश्य सः। अर्हन्तमर्हदम्बां च नमश्चक्रे पुरन्दरः॥६४॥ दत्त्वाऽवस्वापिनी देव्याः पार्वेऽर्हत्प्रतिरूपकम् । विन्यस्याथ विचक्रे स पञ्च रूपाण्यथाऽऽत्मनः ॥६५॥ एकेन प्रभुमुद्धृत्य च्छत्रमन्येन चामरे । अन्याभ्यां वज्रं चान्येन पुरोरूपेण सोऽचलत् ॥६६॥ क्षणान्मेरावतिपाण्डुकम्बलामासदच्छिलाम् । शक्रः सिंहासने तत्राऽऽसाञ्चक्रेङ्कस्थितप्रभुः ॥६७॥ अथाऽच्युतप्रभृतयः कल्पेन्द्रा नव ते तथा । इन्द्रा भवनपतयो विंशतिश्चमरादयः ॥ ६८॥ द्वात्रिंशद् व्यन्तराधीशाः कालप्रभृतयोऽपि च । सूर्या-चन्द्रमसाविन्द्रौ ज्योतिष्काणामुभौ पुनः ॥६९॥ इति त्रिषष्टिस्तत्रेयुर्जन्मस्नात्रकृते प्रभोः । विचक्रुः पूर्णकुम्भादीन्द्राज्ञयाऽथाऽऽभियोगिकाः ॥ ७० ॥ अथाऽच्युतप्रभृतयः सर्वेऽपीन्द्रा यथाक्रमम् । स्वामिनः स्नपनं चक्रुः पवित्रैस्तीर्थवारिभिः ॥७१ ॥ अथेशानपतेरड़े शक्रो न्यस्य जगत्पतिम् । विचक्रे दिक्चतुष्केऽपि चतुरः स्फाटिकान् वृषान् ॥७२॥
न्ते मिलित्वा विनिपातिभिः । स्वामिनं स्नपयामास शक्रः शुचिभिरम्बुभिः॥७३॥ संहृत्य स्फाटिकानुक्ष्णः कृत्वा चर्चादिकं प्रभोः । उत्तार्याऽऽरात्रिकं चेति स्तोतुं शक्रः प्रचक्रमे ॥७४ ॥ ★ "त्वाऽपस्वा । १ प्रतिरूपकम्-प्रतिबिम्बम्-प्रतिमाम् । २ पूर्णकुम्भादि इन्द्राज्ञया इति सन्धिविश्लेषः । रङ्के मि०।३ पतद्धिः । ४ स्फटिकमयान् वृषमान्।
282828282828282828282828286
इन्द्रकृतो
जन्मोत्सवः।
॥६
॥