________________
त्रिषष्टि
शलाका
पुरुषचरिते
114 11
KRERERERER!
CREDERER
धृत्वा दर्पण - भृङ्गार-व्यजन-श्वेतचामरान् । पूर्वादिदिक्क्रमेणास्थुर्गायन्त्यः स्वामिनो गुणान् ॥ ५० ॥ ॥ त्रिभिर्विशेषकम् ॥ चतस्र एत्य चित्राद्या रूचकस्य विदिग्भवाः । तद्वन्नत्वा विदिक्ष्वस्थुर्गायन्त्यो दीपपाणय: ॥ ५१ ॥ चतस्रो रुचकान्तस्था रूपाद्या दिक्कुमारिकाः । अर्हन्तमर्हदम्बां च नत्वा स्वज्ञप्तिपूर्वकम् ॥ ५२ ॥ चतुरङ्गुलकोत्कर्षं स्वामिनालमखण्डयन् । खनित्वा विदरं तत्र निचख्नुस्तच्च तत्क्षणात् ॥ ५३ ॥
॥ युग्मम् ॥
विदैरं वज्ररत्नैस्तदाऽऽपूर्योपरि तस्य च । बबन्धुर्निबिडं पीठं दूर्वया द्रागपूर्वया ॥ ५४ ॥ सूतिकावेश्मनस्तस्य चक्रुस्तिसृषु दिक्षु ताः । सिंहासनचतुःशालवन्ति रम्भागृहाणि च ॥ ५५ ॥ हस्तेऽर्हन्तं गृहीत्वाऽर्हन्मातरं च भुजे तथा । अपाग्रम्भागृहचतुःशालसिंहासने न्यधुः ॥ ५६ ॥ शतपाकादिभिस्तैलैरुभावभ्यज्य तत्र ताः । गन्धद्रव्यैः सूक्ष्मपिष्टै : सुस्पर्शमुदवर्तयन् ॥ ५७ ॥ प्राच्यरम्भागृहचतुःशालसिंहासने ततः । तौ न्यस्याऽस्त्रपयन् गन्ध-पुष्प-शुद्धौदकैश्च ताः ॥ ५८ ॥ ततस्ताः पँरिधाप्योभौ वस्त्रा- ऽलङ्करणादिकम् । उदग्रम्भागृहचतुःशालसिंहासने न्यधुः ॥ ५९ ॥ गोशीर्षचन्दनं दग्ध्वा सद्योऽरणिकृताग्निना । तद्भस्मना बबन्धुस्ता रक्षाग्रन्थि द्वयोरपि ॥ ६० ॥
१ दीपहस्ता: । २ स्वपरिचयदानपूर्वकम् । ३ गर्त:, भाषायाम् 'खाडो' । दूर्वा भाषायाम् ' धरो' इत । ४ चतुःशालम् - गृहप्रकार:, "चोसाल" इति भाषायाम् । ५ अभ्यज्य विलिप्य । ६ न्यस्य स्थापयित्वा । ७ परिधाप्य परिधानं कारयित्वा । ८ उदग्-उत्तरम् । ९ अरणिकाष्टघर्षणेन अग्निर्जायत इति प्रसिद्धम् ।
FRERERERE RY
CREDERERERY
चतर्थं पर्व प्रथमः
सर्गः
श्रेयांस
जिनचरितम् ।
दिकुमारीकृतो जन्मोत्सवः ।
॥५॥