________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ४ ॥
GRERERERERERERERERERERERERE
पूर्णकुम्भो गरीयांश्च निधानं श्रेयसामिव । महापद्मं पद्मसर: पद्महृद इवापर : ॥ ३७ ॥ आरुरुक्षुरिव दिवमुत्कल्लोलो महार्णवः । अनुजं पालकस्येव विमानवरमायतम् ॥ ३८ ॥ रत्नपुञ्जश्च सर्वस्वमिव रत्नाकरोद्धृतम् । निर्धूमश्चानलो भौममण्डलस्यानुहारकः ॥ ३९ ॥ एते तदा विष्णुदेव्या महास्वप्नाश्चतुर्दश । मुखे विशन्तो ऽदृश्यन्त तीर्थकृज्जन्मसूचका : ॥ ४० ॥ तपस्यकृष्णद्वादश्यां श्रवणे खङ्गिलाञ्छनम् । स्वर्णवर्णं विष्णुदेवी सुखेन सुषुवे सुतम् ॥ ४१ ॥ अथाघोलोकवास्तव्या अष्टौ भोगङ्करादयः । दिक्कुमार्यः समाजग्मुर्विज्ञायाऽऽसनकम्पतः ॥ ४२ ॥ तीर्थकृन्मातरं नत्वा ‘मा भैषी 'र्वादपूर्वकम् । आत्मानं ज्ञापयित्वा च कृत्वा संवर्तकानिलम् ॥ ४३ ॥ परितः सूतिकागारमायोजैनमथासृजन् । स्वामिमातुरदूरे ता गायन्त्यश्चावतस्थिरे ॥ ४४ ॥ ॥ युग्मम् ॥ नन्दनोद्यानकूटस्था ऊर्ध्वलोकजुषोऽष्ट च । एत्य मेघङ्कराद्या दिक्कन्या देवीं प्रणम्य च ॥ ४५ ॥ स्वं ज्ञापयित्वा कृत्वा च दुर्दिनं गन्धवारिभि: । सिषिचुः क्ष्मां सूतिवेश्मपरितो योजनावधिम् ॥ ४६ ॥ विदधुः पुष्पवृष्टिं चाधाक्षुर्धूपं च सुन्दरम् । गायन्त्योऽर्हगुणांस्तस्थुर्विष्णुदेव्या अदूरत: ॥ ४७ ॥ ॥ त्रिभिर्विशेषकम् ॥ रुचकस्य च पौरस्त्या देव्यो नन्दोत्तरादयः । अपाच्याः समाहाराद्याः प्रतीचीनास्त्विलादयः ॥ ४८ ॥ अलम्बुसाद्यास्तूदीच्या अष्ट प्रत्येकमेत्य ताः । नत्वाऽर्हन्तं तदम्बां च ज्ञापयित्वा स्वमुच्चकैः ॥ ४९ ॥
१ अनुज:- लघुभ्राता । २ भौमः मङ्गल । अनुहारक:- अनुसारी । ३ तपस्य :- फाल्गुनः । ४ खङ्गी-मण्डक:, भाषायाम् 'गेंडो' इति । ५ आयोजनम् - योजनपर्यन्तम् । ६ दुर्दिनम् - मेघजं तमः, भाषायाम् 'वादलां' इति । ७ अधाक्षुः- ज्वालयामासुः ।
FREDEREREREREDEREREREREREREI
चतर्थं पर्व
प्रथमः सर्गः
श्रेयांस
जिन
चरितम् ।
श्रेयांसजिनजन्मादि ।
दिक्कुमारीकृतो जन्मोत्सवः ।
॥ ४॥