________________
त्रिषष्टिशलाकापुरुषचरिते ॥३॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
188888888888888888888888888
दानधर्म इवौचित्यात् सूनृतेनेव भारती । अवदातेन यशसा शुशुभे तस्य विक्रम :॥२३॥ गुणानां शौर्य-गाम्भीर्य-धैर्यादीनां स भूयसाम् । नित्यं क्रीडनसङ्गीतनिकेतनमिवाभवत् ॥२४॥ जिष्णोरिव शची रूपभ्राजिष्णुर्विष्णुरित्यभूत् । द्वितीयेव मही स्थैर्यात् पत्नी तस्य महीपते : ॥ २५ ॥ शिरीषसुकुमारस्य सा निजाङ्गस्य भूषणम् । निशातं खङ्गधारावत् सतीव्रतमधारयत् ॥ २६ ॥ यथाऽभूदप्रतिच्छन्दो विक्रमेण स भूपति : । तथा साऽप्यप्रतिच्छन्दा रूपलावण्यसम्पदा ॥ २७ ॥ अलसा सा गतावेव न पुनर्धर्मकर्मणि । मध्यप्रदेश एवाभूत् तुच्छा न पुनराशये ॥ २८ ॥ तस्या राज्ञोऽपि च मिथोऽनुस्यूतमनसोरिव । अक्षया प्रीतिरभवदविघ्नं रममाणयोः ॥ २९ ॥ इतश्च शुक्रे नलिनगुल्मस्य पृथिवीपतेः । जीवः प्रकृष्टसङ्ख्यं स निजमायुरपूरयत् ॥ ३० ॥ ज्येष्ठस्य षष्ठ्यां कृष्णायां श्रवणस्थे निशाकरे । च्युत्वा ततस्तस्य जीवो विष्णुकुक्षाववातरत् ॥३१॥ नारकाणामपि सुखमुद्योतश्च जगत्त्रये । जज्ञे तदा क्षणं स्याद्धि कल्याणेष्वर्हतामिदम् ॥३२॥ सङ्क्षिप्त इव वैताढ्यः श्वेतवर्णो महागजः । समत्स्यः शरदम्भोद इवोच्छृङ्गः सितो वृषः ॥३३॥ उत्पुच्छो विधृतच्छत्र इव केसरिपुङ्गवः । साभिषेका महालक्ष्मीर्मूर्त्यन्तरमिवाऽऽत्मनः ॥ ३४ ॥ सुगन्धि सुमनोदाम मूर्त्तमिव यशः स्वकम् । सुधाकुण्डमिव ज्योत्स्नाप्लतः पर्वनिशाकरः॥३५॥ मार्तण्डमण्डलं दीप्रं दिवः सीमन्तरत्नवत् । ध्वजश्चलपताकश्च सशाख इव पादपः ॥ ३६ ॥
१ जिष्णु :- इन्द्रः । २ तीक्ष्णम् । ३ अप्रतिच्छन्द :- अनुपमानः । ४ अलसा-मन्दरा आलस्ययुक्ता च । ५ तुच्छा-कृशा क्षुद्रा च । ६ श्रवणनक्षत्रस्थिते । ७ ऊर्ध्वपुच्छ : । ८ पूर्णिमाचन्द्र: । ९ स्वर्गस्य सीमन्तरत्नवत्, भाषायाम्- 'सीमन्त' इति 'सेंथो'।
128282828282828282828282828
श्रेयांसजिन| गर्भावतारः।