________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २ ॥
'RERERERERERERERERERERERERE
कुभोजनेनाहरिव निशामिव कुशय्यया । कियन्तमपि सोऽनैषीत् कालं राज्येन शुद्धधी : ॥ १० ॥ राज्यं रूजमिवोत्सृज्य तत्त्वतौषधिमानस: । वज्रदत्तर्षिणा दत्तां दीक्षामादत्त धर्मधीः ॥ ११ ॥ तप्यमानस्तपस्तीव्रं सहमान: परीषहान् । कर्मेव कृशयन्नङ्गं विजहार स निर्मम: ॥ १२ ॥ अर्हद्भक्त्यादिभिस्तैस्तैः स्थानैः प्रवचनोदितैः । उपार्जयामास दृढं तीर्थकृन्नामकर्म सः ॥ १३ ॥ महातपाः शुभध्यानश्चतुःशरणतत्परः । काले प्राप्तावसानः स महाशुक्रदिवं ययौ ॥ १४॥ ततश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । रत्ननूपुरवद् भूमेरस्ति सिंहपुरं पुरम् ॥ १५ ॥ सङ्कान्ततारका रत्नवलेभ्यस्तत्र वेश्मनाम् । श्रियं सदन्तशारस्य शारपट्टस्य बिभ्रति ॥ १६ ॥ तद्वप्रमेखलासूच्चैर्विश्रान्ता भान्ति वारिदाः । चक्षूरक्षाकृते दत्ताः कज्जलस्थासका इव ॥ १७ ॥ वरिष्ठवनिताचार्रमञ्जुमञ्जीरशिञ्जितैः । वितन्यते श्रियो देव्या नित्यं सङ्गीतकोत्सवः ॥ १८ ॥ रत्नावकरवाहीनि स्रोतांस्यपि तदोकसाम् । यान्ति रत्नाकरस्त्रोतस्तुलां वर्षति वारिदे ॥ १९ ॥ आढ्यम्भविष्णुर्यशसा प्रभविष्णुर्भुजौजसा । विष्णुराज इति क्ष्मापस्तत्राभूद् विष्णुविक्रमः ॥ २० ॥ तत्रेन्द्रियजयो नाम गुणो बीजमिवावनौ । सस्यराशिमिवाऽसूत गुणराशि समुज्ज्वलम् ॥ २१ ॥ प्रणते च विपक्षे च तुष्टा रुष्टाश्च तद्दृशः । ययुः स्वयंवरस्त्रक्त्वं श्रियोऽपि च भियोऽपि च ॥ २२ ॥
१ अर्हत्-सिद्ध-साधु-धर्मरूपं शरणचतुष्कम् । २ वलभी वंशपञ्जरादिमयं गृहाच्छादनम् । ३ दन्तशार: दन्तमय: शारः, भाषायाम्'दांतनो पासो' । ४ शारपट्ट:-पाशकपट्ट: । ५ कज्जलस्थासकः- कज्जलतिलकम् । ६ चार:- गतिः । मञ्जीरम्-नूपुरम् । शिञ्जितम्-भूषणध्वनिः । ७] अवकरः- उत्करः । ८ नम्रे शत्रौ च ।
KAGAGAGAUDEREDEREREREREDER
चतुर्थं पर्व
प्रथमः सर्गः श्रेयांसजिन
चरितम् ।
श्रेयांसजिनपूर्वभव
सम्बन्धः ।
॥ २ ॥