________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १ ॥
SAKAKAKAERERERERERERERERERE:
प्रथमः सर्गः । श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितम् ।
श्रीश्रेयांसप्रभोः पादाः श्रेयो विश्राणयन्तु वः । निःश्रेयसपथालोकदीपायितनखांशवः ॥ १ ॥ श्री श्रेयांसजिनेन्द्रस्य पवित्रितजगत्त्रयम् । लवित्रं कर्मवल्लीनां चरित्रमिदमुच्यते ॥ २ ॥ पुष्करवरद्वीपार्थे प्राग्विदेहेषु सुन्दरे । विजये कच्छसज्ञेऽस्ति नाम्ना क्षेमेति पूर्वरा ॥ ३ ॥ महीभृन्मौलिमुकुटघृष्टाङ्घ्रिनलिनद्वयः । राजा नलिनगुल्मोऽभूद् गुणैरमलिन : सदा ॥ ४ ॥ स स्वामी मन्त्रिणो मन्त्रबलाकृष्टरिपुश्रियः । सुरराष्ट्रोपमं राष्ट्रं सर्वारिष्टविवर्जितम् ॥ ५ ॥ दुर्गाणि जितवैताढ्यविद्याधरपुराणि तु । कोशांश्च श्रीदसर्वस्वाधरीकारपरायणान् ॥ ६ ॥ बलं हस्त्यश्व-पादात-रथच्छादितभूतलम् । असुहृदय क्षेत्रकर्षकान् सुहृदोऽपि च ॥ ७ ॥ राज्यस्य विकलाङ्गत्वं मा भूदिति धिया व्यधात् । जगदेकमहाबाहुर्बाहुदन्तेयविक्रम: ॥ ८ ॥ ॥ चतुर्भिः कलापकम् ॥ ay-वन-लक्ष्मीणां साराणामप्यसारताम् । सोऽमन्यत महाप्राज्ञो विवेकामलमानसः ॥ ९ ॥ ४ बाहुदन्तेयः - इन्द्रः ।
१ विश्राणयन्तु यच्छन्तु । २ दीपायिताः दीपसमाना: ।
३ लवित्रम् - छेदकम् ।
REDEREREREREREREREREDERERET
चतुर्थं पर्व
प्रथमः सर्गः
श्रेयांसजिन
चरितम् ।
श्रेयांसजिनपूर्वभव
सम्बन्धः ।
॥ १ ॥