________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
॥९॥
1282828282828282828282828282
विश्वनाथेन सह च सहस्त्रमवनीभुजः । राज्यं तृणवदुत्सृज्य समुपाददिरे व्रतम् ॥ १०३ ॥ शाश्वताहत्प्रतिमानां कुर्वन्तोऽष्टाह्निकोत्सवम् । सुरा-ऽसुराधिपतयः स्वं स्वं स्थानं ततो ययुः॥१०४॥ द्वितीयेऽहनि सिद्धार्थपुरे नन्दनृपौकसि । पारणं परमान्नेन चकार परमेश्वरः ॥१०५॥ अमरैर्वसधारादिपञ्चकं विदधे ततः । रत्नपीठं स्वामिपादस्थाने नन्दनृपेण तु ॥१०६॥ ततः स्थानादथ स्वामी ग्रामा-ऽऽकर-पुरादिषु । अप्रतिबद्धो विहर्तुं प्रावर्तत समीरवत् ॥१०७॥ इतश्च पुण्डरीकिण्यां प्राग्विदेहशिरोमणौ । पुर्यभूत् सुबलो राजा स महीं चिरमन्वशात् ॥१०८ ॥ पार्वे मुनिवृषभषेः प्रव्रज्य समये च सः। तपस्तप्त्वा च मृत्वा च विमानेऽनुत्तरे ययौ ॥१०९ ॥ इतः पुरे राजगृहे विश्वनन्दिमहीपतेः । पत्न्यां प्रियङ्गौ विशाखनन्दी नाम सुतोऽभवत् ॥ ११०॥ विश्वनन्दिनरेन्द्रस्यावरजो युवराडभूत् । विशाखभूतिर्मतिमान् वीर्यवान् विनयी नयी ॥१११ ॥ विशाखभूतेर्भार्यायां धारिण्यां तनयोऽभवत् । मरीचिजीवः सुकृतैरनन्तरभवाजितैः ॥ ११२ ॥ विश्वभूतिरिति नाम पितरौ तस्य चक्रतुः । धात्रीजनैाल्यमानो व्यवर्धिष्ट क्रमाच्च सः ॥११३ ॥ कलाकलापं सोऽध्यैष्ट प्रपेदे सकलान् गुणान् । अङ्गस्य मूर्त्तनेपथ्यं क्रमात् प्राप च यौवनम् ॥११४ ॥ सान्तःपुरः स चिक्रीडोद्याने पुष्पकरण्डके । मनोज्ञतरुभूयिष्ठे भूमिष्ठ इव नन्दने ॥११५ ॥ १ समीर :- पवन : । २ पुरि-अभूत्। ★ इतश्चाऽऽसीद् राजगृहे विश्वनन्दीति भूपति : । विशाखनन्दी तत्पन्यां प्रियङ्गौ तनयोऽभवत् ।। संबृ०॥ ३ लघुबन्धु : युवराड् अभूत्। ४ भरतपुत्रस्य मरीचे वः । तस्य कथा प्रथमपर्वणि वर्णिता। ५ आकारयुक्तं नेपथ्यम्।
828282828282828282828282828
त्रिपृष्ठवासु
देव-अचलबलदेव
अश्वग्रीवप्रतिवासुदेवचरितम्।
॥९॥