________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०५॥
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
इति कोपं शमयितुं किन्नरादिस्त्रियोऽपि हि । जगुश्च ननृतुश्चाग्रे तस्य विष्णुमहामुनेः ।। १८६ ।। धरण्यां नमुचिं क्षिप्त्वा मध्येपूर्वापराम्बुधि । ददौ पादं जगद्वन्धपादः पद्माग्रजो मुनिः ।। १८७ ॥ पद्मोऽपि ज्ञातवृत्तान्तः समुपेत्य ससम्भ्रमः । चकितः स्वप्रमादेन मन्त्रिदोषेण तेन च ।। १८८ ।। स्वमग्रजं महर्षि तं नमस्कृत्यातिभक्तितः । कृताञ्जलिर्नेत्रजलक्षालिताङ्घिरदोऽवदत् ।। १८९ ।। तातः पद्मोत्तरोऽद्यापि चेतसा मम तिष्ठति । स्वामिन् विजयिनि सति लोकोत्तरगुणे त्वयि ।। १९० ॥ श्रीसङ्घाशातनां मन्त्रिपांसनेनामुना त्वहम् । क्रियमाणां न जानामि ज्ञापितोऽस्मि न केनचित् ।। १९१ ॥ अपराधी तथाप्यस्मि भृत्यः पापो ह्यसौ मम । स्वामिनो भूत्यदोषेण गृह्यन्त इति नीतिवाक् ।। १९२ ॥ तथाहमपि ते भृत्यस्त्वं स्वामी परमो मम । गृह्यसे मम दोषेण तत्कोपमुपसंहर ।।१९३ ॥ पापस्यास्यापराधेन त्रैलोक्यं प्राणसंशये । महात्मन्निदमारूढं त्रायस्व करुणानिधे ।। १९४ ।। एवमन्येऽपि विविधं सुरासुरनरेश्वराः । तमृषि सान्त्वयामासुः श्रीसङ्घश्च चतुर्विधः ।। १९५ ॥ अतिशब्दपथां वृद्धि प्राप्तो यावन्न सोऽशृणोत् । पादस्पर्श व्यधुस्तस्य तावत्सर्वेऽपि भक्तितः ॥ १९६ ॥ पादस्पर्शेन सोऽधस्तादपश्यद्भातरं पुरः । चतुर्विधं तथा सङ्घ सुरासुरनृपानपि ।। १९७ ॥ इत्थं च दध्यौ स मुनिः श्रीसोऽयं कृपापरः । अयं च दीनो मे भ्राता भीताश्चैते सुरादयः ।। १९८ ॥ कोपोपसंहारकृते युगपत् सान्त्वयन्ति माम् । मान्यः सोऽनुकम्प्याश्च पद्मप्रभृतयो मम ।। १९९ ॥ विमृश्यैवं वपुर्वृद्धि संहृत्य स महामुनिः । तस्थौ प्रकृत्यवस्थायां गतवेल इवार्णवः ।। २०० ॥ १ शब्दमार्गमतिक्रान्तां शब्दातीतामित्यर्थः ।
विष्णुकुमारकोपोपशमनम्।
||१०५॥