________________
त्रिषष्टिशलाका
सानुरोधान्नमुचि मुमोच स महामुनिः । तं मन्त्रिपांसनं सद्यः पद्मस्तु निरवासयत् ।। २०१ ॥ तया त्रिपद्या स मुनिस्ततः प्रभृति पावनीम् । त्रिविक्रम इति ख्यातिमाससाद जगत्त्रये ।। २०२ ।। सङ्घकार्य स तत्कृत्वा शान्तस्तप्त्वा तपः परम् । उत्पन्नकेवलो विष्णुकुमारः प्रययौ शिवम् ॥२०३ ॥ पद्मोऽपि हि भवोद्विग्नस्त्यक्त्वा राज्यं पलालवत् । सद्गुरोः पादपद्मान्ते परिव्रज्यामुपाददे ॥२०४ ॥ कौमारेऽब्दपञ्चशती मण्डलित्वेऽपि सैव हि । जये त्र्यब्दशती चक्रभृत्त्वे सप्तशतीयुता ।। २०५ ।। अष्टादशसहस्यब्दसहस्रास्तु व्रते दश । त्रिंशद्वर्षसहस्रायुरित्यभूत्पद्मचक्रभृत् ।। २०६ ॥युग्मम् ॥
नानाविधाभिग्रहसुन्दराणि प्रतप्य तीव्राणि तपांसि पद्मः ।
घातिक्षयासादितकेवलर्द्धिः पदं ययौ शाश्वतशर्मधाम ॥२०७ ॥ अत्र द्वौ जिनचक्रिणौ जिनपती चोभावुभौ चक्रिणौ रामौ द्वौ च हरी उभौ प्रतिहरी चोभावमी कीर्तिताः । कीर्तिव्याप्तदिशश्चतुर्दश महात्मानः शलाकानरास्तेषां वृत्तमुदारमस्तु तदिदं लोकस्य कर्णातिथि ॥२०८ ।।
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
पुरुषचरिते
॥१०६॥
महापद्मदीक्षामोक्षौ ।
। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
षष्ठे पर्वणि श्रीपद्मचक्रवर्तिवर्णनो
नामाष्टमः सर्गः ।
||१०६॥
MIT
षष्ठं पर्व समाप्तम्।