________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०४॥
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
पुनरप्यभ्यधाद्विष्णुः प्रभविष्णुरपि क्षमी । वसन्तूद्यानमेवामी नगरस्य बहिः स्थिताः ।। १७२ ।। जातामों महर्षि तं व्यब्रवीत् सचिवब्रुवः । न सहे गन्धमपि वः संवासप्रार्थनैरलम् ।। १७३ ॥ पुरस्यान्तर्बहिर्वापि निवासः श्वेतवाससाम् । दस्यूनामिव मर्यादाहीनानां न भविष्यति ।। १७४ ।। यदि वः प्राणितं प्रेयस्तदापसरत द्रुतम् । अन्यथा वो हनिष्यामि तार्यो विषधरानिव ।। १७५ ।। इत्युक्त्योद्दीपितो विष्णुराहुत्येव हुताशनः । ऊचे तथाप्यहो देहि स्थातुं नस्त्रिपदीमिह ।। १७६ ॥ ततो नमुचिरित्यूचे दत्ता वस्त्रिपदी मया । यस्त्रिपद्या बहिर्वः स्यान्निहनिष्यामि तं खलु ।। १७७ ॥ एवमस्त्विति देहीति चोक्त्वा प्रववृधे मुनिः । किरीटी कुण्डली स्रग्वी धनुर्वज्रकृपाणभृत् ।। १७८ ।। खेचरान् स्फारफूत्कारैभ्रंशयजीर्णपर्णवत् । पद्मिनीपत्रवत्पाददर्दरैः कम्पयन् महीम् ॥ १७९ ॥ उल्लालयञ्जलनिधीन् कल्पान्तपवमानवत् । प्रेतीपगा आपगाश्च कुर्वाणः सेतुबन्धवत् ।। १८० ॥ ज्योतिश्चक्राणि पर्यस्यन् कर्करप्रकरानिव । दारयन् पर्वतवरानपि वल्मीकपुजवत् ।। १८१ ।। स महौजा महातेजाः सुरासुरभयङ्करः । वर्धमानः क्रमान्नानारूपो मेरुसमोऽभवत् ।। १८२ ।।
॥चतुर्भिः कलापकम् ।। त्रिजगत्क्षोभमालोक्य प्रसादनकृतेऽस्य तु । सहस्राक्षः समादिक्षद्गायनीः सुरयोषितः ।। १८३ ।। कर्णमूले जगुस्तस्य गान्धारग्रामबन्धुरम् । सर्वज्ञोपज्ञशास्त्रानुरूपमेतन्निरन्तरम् ।। १८४ ।। कोपादिहापि दह्यन्ते स्वार्थे मुह्यन्ति चासकृत् । विपद्य चानन्तदुःखं प्रयान्ति नरकं नराः ।। १८५ ॥ १ पादकुट्टनैः । २ प्रतीपं प्रतिलोमं गच्छन्ति ताः ।
विष्णुकुमारेण शरीरवर्धनम् ।
19०४॥