________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०३॥
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रि चरितम् ।
इत्युक्त्वा स ययौ स्वौकः सूरिरप्यब्रवीन्मुनीन् । किं कतर्व्यमिह ब्रूत यथाशक्ति यथामति ।। १५६ ॥ तत्रैकः साधुरित्यूचे षष्टिवर्षशतीं तपः । तप्तवान् विष्णुकुमारो मन्दरे सोऽस्ति सम्प्रति ।। १५७ ।। सोऽग्रजः पद्मराजस्य तेन तद्वचनादसौ । शान्ति यास्यति नमुचिः स्वामी सोऽप्यस्य पद्मवत् ।। १५८ ॥||* यो विद्यालब्धिमान साधुस्तमानेतुं प्रयातु सः । उपयोगोऽपि लब्धीनां सहकार्ये न दुष्यति ।। १५९ ।। अथैकः साधुरित्यूचे गन्तुं तत्र विहायसा । शक्नोमि न समागन्तुं ब्रूत यत्कृत्यमत्र मे ॥१६० ॥ त्वां समानेष्यते विष्णुरेवेति गुरुणोदिते । उत्पत्य तायवद्व्योम्ना क्षणात् पद्माग्रजं ययौ ।। १६१ ।। दृष्ट्वा विष्णुकुमारस्तं चिन्तयामासिवानिति । सङ्घकार्य महद्वेगाद्वदत्यस्यागमो मुनेः ।। १६२ ।। प्रावृट्काले हि साधूनां विहारो नान्यथा भवेत् । लब्धीनामुपयोगं च न ते कुर्युर्यथा तथा ॥ १६३ ॥ एवं विचिन्तयन्तं तं स मुनिर्मुनिपुङ्गवम् । अभिवन्द्य समाचख्यौ तन्निजागमकारणम् ।। १६४ ।। क्षणाद्विष्णुकुमारस्तं गृहीत्वार्षि विहायसा । आययौ हास्तिनपुरे ववन्दे चात्मनो गुरून् ।। १६५ ।। ततः साधुपरीवारो विष्णुर्नमुचिमभ्यगात् । सर्वैर्नमुचिवजं च ववन्दे पार्थिवादिभिः ।। १६६ ॥ विष्णुधर्मकथापूर्व ससान्त्वमिदमभ्यधात् । यावत्प्रावृडिहैवामी तिष्ठन्तु मुनयः पुरे ।। १६७ ॥ एकत्र स्वयमप्येते चिरकालं वसन्ति न । वर्षासु जन्तुबाहुल्याद्विहारस्तु न कल्पते ।। १६८ ॥ गरीयसि पुरेऽमुष्मिन् भिक्षुभिर्भेक्षवृत्तिभिः । अस्मादृशैर्वसद्भिस्ते हानिः का नाम बुद्धिमन् ।। १६९ ॥ भरतादित्यसोमाद्यैर्वन्दिताः साधवो नृपैः । तथा न चेत् करोषि त्वं स्थातुं देहि तथापि भोः ।। १७० ॥ इत्युक्तो विष्णुना मन्त्री प्रत्यूचे कोपदारुणम् । अलमाचार्यवचनैर्वस्तुं नेह ददामि वः ॥ १७१ ॥
विष्णु
कुमाराह्वानम् ।
।।१०३॥