________________
षष्ठं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमः सर्गः महापद्मचक्रिचरितम् ।
॥१०२॥
*SHAHARASHRSSRASHRA
इत्यादि विविधावस्थो भवितुं प्रबभूव सः । बभूव न तु साधूनां लब्धिभोगोऽपैदे न हि ।। १४१ ॥ तेऽन्यदा सुव्रताचार्यः साधुभिः परिवारिताः । प्रावृषोऽतिक्रमायैत्य न्यवसन् हस्तिनापुरे ।। १४२ ।। आचार्यागमनं ज्ञात्वा प्राग्वैरप्रेतियातनाम् । चिकीर्षुर्नमुचिर्मन्त्री महापद्मं व्यजिज्ञपत् ।। १४३ ।। वरः प्राक्प्रतिपन्नो मे नरेन्द्रवर दीयताम् । न्यासवत्प्रतिपन्नस्य नास्ति नाशो महात्मसु ।। १४४ ।। याचस्वेति स राज्ञोक्तेऽब्रवीद्यक्ष्याम्यहं क्रतुम् । तदन्तावधि मे राज्यं देहि वाचं निजां स्मरन् ।। १४५ ॥ सत्यप्रतिज्ञो निदधे राज्ये नमुचिमन्त्रिणम् । अन्तरन्तःपुरं राजा प्रविवेश स्वयं पुनः ॥ १४६ ।। पुरान्निर्गत्य नमुचिः कपटात् क्रेतुवाटके । अभवदीक्षितः पापो दुष्टध्यायी बैकोटवत् ।। १४७ ।। तस्याभिषेककल्याणं कर्तुं प्रकृतयोऽखिलाः । श्वेतभिक्षून् विना सर्वे लिङ्गिनश्च समाययुः ।। १४८ ।। एयुर्मा लिङ्गिनः सर्वे न त्वमी श्वेतभिक्षवः । मात्सर्यादिति तच्छिद्रमग्रे चक्रे स दुर्मतिः ।। १४९ ॥ गत्वा च सुव्रताचार्यानिति साक्षेपमब्रवीत् । यो यदा स्यान्नृपस्तं हि श्रयन्ते लिङ्गिनस्तदा ।। १५० ॥ राजरक्ष्याणि हि तपोवनानीति तपोधनैः । राजाभिगम्यः क्रियते तपःषष्ठांशभाक् तथा ।। १५१ ।। मन्निन्दकाः पुनर्पूयं स्तब्धाः पाखण्डिपांसनाः । निर्मर्यादाविधातारो लोकराजविरुद्धयोः ।। १५२ ।। तधुष्माभिर्न मे राज्ये स्थातव्यं गच्छतान्यतः । योऽत्र वः स्थास्यति स मे वध्यः खलु खलाशयः ॥१५३ ॥ बभाषे सूरिरप्येवं न नः कल्प इति त्वयि । अभिषिक्ते न सम्प्राप्ता निन्दामश्च न किञ्चन ॥ १५४ ॥ प्रत्यूचे स पुनः क्रुद्धः कृतमाचार्य विस्तरैः । सप्ताहादिह तिष्ठन्तो निग्राह्या दस्युवन्मया ।। १५५ ॥ १ समर्थोबभूव, परं न कृतवानुपयोगमित्यर्थः । २ अस्थाने ।३ प्रतियातना प्रतिक्रिया । ४ यज्ञम् । ५ यज्ञमण्डपे । ६ बकवत् ।।
विष्णुकुमारस्य लब्धिः ।
॥१०२॥