________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१०१॥
विष्णुरप्यभ्यधत्तैवं कृतं राज्येन तात मे । त्वामनु प्रव्रजिष्यामि व्रजिष्यामि त्वदध्वना ॥ १२७ ॥ राजाथ पद्ममाहूय सोपरोधमभाषत । वत्सोपादत्स्व राज्यं नः प्रव्रजामो यथा वयम् ॥ १२८ ॥ अभ्यधात् प्राञ्जलिः पद्मस्तात तातसमे मम । आर्ये विष्णुकुमारे सत्येतन्न खलु युज्यते ।। १२९ । राज्येऽभिषिच्यतां विष्णुरलम्भूष्णुर्जगत्यपि । भवामि युवराजोऽस्य पदातिवदहं पुनः ।। १३० ।। ऊचे राज्ञाभ्यर्थितोऽपि नैष राज्यं जिघृक्षति । जिघृक्षति परिव्रज्यां किं तु सार्धं मयैव हि ।। १३१ ।। आत्तमौनस्ततः पद्मः पद्मोत्तरमहीभुजा । राज्येऽभ्यषेचि चक्रित्वाभिषेकेण सहैव हि ।। १३२ ॥ कृत निष्क्रमणस्तेन सुव्रताङ्घ्रितले व्रतम् । पद्मोत्तरनृपो विष्णुकुमारेण सहाददे ।। १३३ ।। स्वपुरेऽभ्रमयत् पद्मोऽप्यार्हतं मातृकं रथम् । पूज्यमानं जनैः सर्वैः स्वशासनमिवावनौ ।। १३४ ॥ रथभ्रमणकालं तु तेऽपि सुव्रतसूरयः । तस्थुस्तत्रैव नगरे समं पद्मोत्तरादिभिः ।। १३५ ।। चक्रे जिनप्रवचनस्योन्नतिः पद्मचक्रिणा । स्वकीयस्येव वंशस्य चरित्राद्भुतशालिना ।। १३६ ॥ ग्रामाकरपुरद्रोणमुखादिषु स उच्चकैः । कोटिशोऽकारयच्चैत्यान्यद्रीनिव नवोत्थितान् ॥ १३७ ॥ विहृत्य गुरुभिः सार्धं पालयित्वोत्तमं व्रतम् । उत्पन्नकेवलः सिद्धिं पद्मोत्तरमुनिस्त्वगात् ।। १३८ ॥ मुनिर्विष्णुकुमारोऽपि तप्यमानोऽद्भुतं तपः । तपोमहिम्ना समभूत् संजातानेकलब्धिकः ।। १३९ । उत्तुङ्गो मेरुवद्व्योमचारी विहेगराजवत् । गीर्वाणवत्कामरूपो रूपवान् मीनकेतुवत् ॥। १४० ।।
१ तव मार्गेण । २ आग्रहसहितम् । ३ पितृसदृशे । ४ ग्रहीतुमिच्छति । ५ गरुडवत् । ६ कामदेववत् ।
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रि चरितम् ।
पद्मोत्तरनृपविष्णुकुमार
योर्दीक्षा ।
11909 11