________________
त्रिषष्टिशलाका
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
पुरुषचरिते
॥१००॥
विद्याधरपती तौ च गङ्गाधरमहीधरौ । स्वसैन्यभङ्गमालोक्य जीवग्राहं प्रणेशतुः ।। ११२ ॥ ततश्चोत्पन्नचक्रादिरत्नः पद्मोत्तरात्मजः । षट्खण्डभरतक्षेत्रविजयं विदधे बली ॥११३ ॥ स्त्रीरत्नेन विना तस्य चक्रिऋद्धिरपूर्यत । इन्दोः सितचतुर्दश्यां पूर्णतेव कलां विना ।। ११४ ॥ पूर्वदृष्टां स्मरंस्तां च स्त्रीरत्नं मदनावलीम् । तदाश्रमपदं पद्मः क्रीडयेव ययौ पुनः ।। ११५ ॥ आतिथ्यं तापसाश्चक्रुस्तस्मै तत्र भ्रमन् गतः । जनमेजयराजस्तु ददौ तां मदनावलीम् ॥ ११६ ॥ पूर्णचक्रधरद्धिः स प्रययौ हस्तिनापुरम् । ननाम पितरौ प्राग्वन्मुदितौ मुदितोऽधिकम् ।। ११७ ॥ स्वसूनोश्चरितं तच्चाकर्ण्य कर्णरसायनम् । सोच्छ्वासौ पितरौ तत्राभूतां सिक्ताविव द्रुमौ ।। ११८ ॥ तदा च सुव्रतो नाम मुनिसुव्रतदीक्षितः । आचार्यो विहरंस्तत्र समेत्य समवासरत् ।। ११९ ।। तं गत्वा सपरीवारो राजा पद्मोत्तरोऽनमत् । तद्देशनां च शुश्राव भववैराग्यमातरम् ।। १२० ॥ संस्थाप्य तनयं राज्ये दीक्षायै यावदेम्यहम् । स्वामिस्तावदिह स्थेयमित्याचार्य नृपोऽवदत् ।। १२१ ।। न प्रमादो विधातव्य इत्युक्तः सूरिणा तु सः । तत्पादानभिवन्द्य स्वं प्राविशन्नगरं नृपः ।। १२२ ॥ आहूयामात्यसामन्तप्रभृतीः प्रकृतीर्निजाः । सुतं विष्णुकुमारं चेत्यूचे पद्मोत्तरो नृपः ॥ १२३ ॥ दुःखाब्धिरेष संसारस्तत्पोषाय च देहिनः । प्रवृती रोगितस्येवापथ्येच्छा रोगवृद्धये ॥१२४ ॥ भवे मे पततः पुण्यैरिहागात् सुव्रतप्रभुः । उपकूपं गतस्येवान्धस्य बाहुप्रदो नरः ।। १२५ ॥ अद्य विष्णुकुमारस्तद्राज्ये संस्थाप्यतामयम् । व्रतं सुव्रतपादान्ते ग्रहीष्यामि ध्रुवं त्वहम् ।। १२६ ॥ १ जीवं गृहीत्वा । २ हृष्टः पद्मविशेषणम् । ३ एमि आगच्छामि । ४ दुःखपोषणाय ।
हस्तिनापुरे प्रत्यागमनम् ।
॥१०
॥