________________
त्रिषष्टिशलाकापुरुषचरिते
॥१९॥
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
पटे त्वद्रूपमन्येधुलिखित्वा दर्शितं मया । द्राक् तस्या हृदि कामने कामं च निदधे पदम् ।।९७ ।। पुरुषद्वेषिणी सा प्राग्जीवितद्वेषिणी ततः । बभूव मन्यमाना त्वां दुर्लभ प्राणवल्लभम् ।। ९८ ॥ . पतिर्भवति वा मेऽसौ पद्मः पद्मोत्तरात्मजः । मरणं शरणं वा मे प्रतिज्ञामिति साकरोत् ।। ९९ ।। तस्यास्त्वय्यनुरागं तं पित्रोरहमचीकथम् । अनुरूपवरेच्छातस्तत्क्षणान्मोदमानयोः ।। १०० ।। अहं वेगवती नाम महाविद्याधरी प्रभो । ताभ्यामस्मि समादिष्टा त्वदानयनहेतवे ।। १०१ ॥ तवानुरागिणी चैतामाश्वासयितुमब्रवम् । सुभ्र स्वस्था भवाद्यैव तत्र यास्यामि नन्वहम् ।। १०२ ।। आनेष्यामि महापद्मं तव हृत्पद्मभास्करम् । नो वा वहिं प्रवेक्ष्यामि क्षामीकुरु मनोरुजम् ।। १०३ ॥ एवं तामहमाश्वास्य तदाश्वाससुधाकरम् । इहोपेत्य नयामि त्वामुपकार्यसि मा कुपः ।। १०४ ।। साथ तं तदनुज्ञाता सूरोदयपुरेऽनयत् । आभियोग्यधुसद्यानप्रायानल्पेन रंहसा ।। १०५ ।। प्रभाते सूरवत्सूरोदयनाथेन पूजितः । जयचन्द्रामुपायंस्त स चन्द्र इव रोहिणीम् ।। १०६ ॥ जयचन्द्रामातुलजौ गङ्गाधरमहीधरौ । महाविद्याधरौ विद्यामददोर्मवदुर्धरौ ।। १०७ ।। तद्विवाहं समाकर्ण्य सघश्चकुपतुस्तराम् । एकद्रव्याभिलाषो हि महद्वैरस्य कारणम् ।। १०८ ।। तौ च सर्वाभिसारेण शूरौ सूरोदये पुरे । समेयतुर्योधयितुं जयचन्द्रापति युतौ ।। १०९ ॥ विद्याधरपरीवारो दुर्वारभुजविक्रमः । नगरान्निरगात् पद्मोऽप्यच्छद्मरणकौतुकी ।। ११०॥ स काश्चित्त्रासयन् काश्चिन्निनन काश्चिच्च मारयन् । लीलयायोधयद्वैरिसैन्यान् हरिरिव द्विपान् ।।१११ ॥ १ अत्यन्तम् । २ मनःपीडां अल्पांकुरु ।३ सूर्यवत् ।
कन्यापरिणयनम् ।
॥१९॥