________________
त्रिषष्टिशलाका
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
पुरुषचरिते
॥९८॥
आसनैश्च नवनवैः स मण्डूकासनादिभिः । अग्रतः पार्श्वतश्चापि विचरंस्तमखेदयत् ।। ८३ ॥ कुम्भदेशे चपेटभिः कण्ठे चाड्डष्ठपीडनैः । पादन्यासेन पृष्ठे च स पद्मनाकुलीकृतः ।। ८४ ।। सविस्मयैर्वीक्ष्यमाणः पौरैः साध्विति वादिभिः । नृपेण बन्धुबुद्ध्या च वर्ण्यमानपराक्रमः ।। ८५ ।। भ्रमयामास तन्नागमारोहकपुरन्दरः । कुमारः कारयन् क्रीडा स्वैरं कलभलीलया ।। ८६ ॥ . आरोहकायापरस्मै तं समर्प्य च सिन्धुरम् । कक्षां गृहीत्वावारोहदपरायां पदं दधत् ।। ८७ ॥ तं च विक्रमरूपाभ्यां प्रधानकुलभूरिति । राजा वितर्कयामास निन्ये च निजवेश्मनि ।। ८८ ॥ निजं कन्याशतं तेन भूपतिः पर्यणाययत् । गृहागतो वरस्तादृक् पुण्यैरेव ह्यवाप्यते ।। ८९ ।। ताभिर्भोगान् कुमारस्य भुानस्याप्यहर्निशम् । स्मरणं मदनावल्या नित्यशल्यमिवाभवत् ॥ ९०॥ सोऽन्यदा निशि पर्यङ्के सुप्तो हंस इवाम्बुजे । विद्याधर्या वेगवत्यापजते वायुवेगया ॥९१ ॥ निद्राच्छेदे च किं क्षुद्रे हरसे मामिति ब्रुवन् । मुष्टिमुत्पाटयामास कुमारो वज्रगोलवत् ।। ९२ ।। साप्यूचे मा कुपः स्थामशालिन्नवहितः श्रृणु । अस्ति सूरोदयं नाम पुरं वैताव्यपर्वते ।।९३ ॥ तत्रास्तीन्द्रधनुर्नाम विद्याधरनरेश्वरः । श्रीकान्ता नाम तद्भार्या जयचन्द्रा तयोः सुता ॥ ९४ ।। अनुरूपवराप्राप्त्या जयचन्द्रा च साभवत् । पुरुषद्वेषिणी जीवन्मृता हीनवराः स्त्रियः ॥ ९५ ॥ पटेष्वालेख्य रूपाणि भरतक्षेत्रभूभुजाम् । दर्शितानि मया तस्यै न किंचिदरुचत्परम् ।। ९६ ।। १ आरोहकेषु हस्तिपकेषु पुरन्दर इन्द्रः श्रेष्ठ इति यावत् । २ हस्तिबन्धनरज्जुम् । ३ अवातरत् । ४ स्थाम्ना तेजसा शोभमान ।
कन्यापरिणयनम् ।