________________
त्रिषष्टिशलाकापुरुषचरि ॥९७॥
प्रतिकारैः प्रतीकाराक्षमैर्मुक्तो विदूरतः । ताः पौरनारीर्निकषा झगित्येव स आययौ ॥ ७० ॥
॥ युग्मम् ॥ पलायितुं न शेकुस्तास्तस्थुस्तत्रैव साध्वसात् । नक्राक्रान्तमरालीवत्तारतारं च चुक्रुशुः ॥ ७१ ॥ क्रोशन्तीः प्रेक्ष्य ताः सानुक्रोशं पद्मोऽभिधाव्य तम् । इत्थं ततर्ज रे व्याल पश्यार्वाग्मदुर्मद ।। ७२ ।। कुमाराभिमुखं रोषाद्ववले व्यालकुञ्जरः । कम्पयन् काश्यपीं पादन्यासैः शुषिरिणीमिव ॥ ७३ ॥ अस्मद्रक्षाकृते कोऽपि महात्मात्मानमक्षिपत् । येमास्यस्येव करिणः पुर इत्यवदन् स्त्रियः ।। ७४ ।। क्षणेनाभ्येयुषोऽभ्यर्णं तस्य व्यालस्य सन्मुखम् । ऊर्ध्वं वासोऽक्षिपत्पद्मश्छद्मोऽपि क्वापि शोभते ॥ ७५ ॥ कुमारबुद्ध्या तद्वासो मुहुर्विव्याध सिन्धुरः । आन्ध्याय क्रोध एकोऽपि किं पुनर्मदमूर्च्छितः ।। ७६ ।। तदा च तुमुलेनोच्चैरमिलन्नागरो जनः । समं सामन्तसेनेशैर्महासेनश्च भूपतिः ॥ ७७ ॥ महासेनोऽवदत् पद्मं दोष्मन्नपसर द्रुतम् । अकालमृत्युनानेन करिणा रोषितेन किम् ॥ ७८ ॥ पद्मोऽपि निजगादैवं युक्तमुक्तं त्वया नृप । परं व्रीडाकरं तन्मे यदारब्धस्य मोक्षणम् ॥ ७९ ॥ वशीकृतमिमं व्यालमव्यांलमिव जन्मतः । बाध्यमानं मया पश्य मा भूः सौजन्यकातरः ॥ ८० ॥ एवमुक्त्वा कुमारेण मुष्टिवज्रेण ताडितः । प्रच्छादनपटीवेधन्यग्मुखः स महाकरी ॥ ८१ ॥ ग्रहणाय कुमारस्योत्तस्थौ यावदिभः स तु । स तावद्विद्युदुत्क्षिप्तकरणेनारुरोह तम् ॥ ८२ ॥
१ भयात् । २ सदयं यथा स्यात्तथा । ३ हे दुष्टगज । ४ पृथ्वी । ५ छिद्रसहितामिव । ६ यममुखस्य । ७ आगच्छतः । ८ मत्तमिमं गजं जन्मतः शान्तमिव । ९ आच्छादनवस्त्रस्य वेधे नम्रमुखः । १० विद्युद्वत्प्लुतगत्या ।
षष्ठं पर्व
अष्टमः सर्गः महापद्मचक्रिचरितम् ।
कन्या
परिणयनम् ।
॥९७॥