________________
त्रिषष्टिशलाकापुरुषचरिते
॥१६॥
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
स गच्छन्नुन्मुखः स्वैरं प्रापदेकां महाटवीम् । तत्रापि पर्यटन्नेकमपश्यत्तापसाश्रमम् ।। ५५ ।। तापसैः कृतसत्कारः प्रियातिथिसमागमैः । प्रावर्त्तत महापद्मस्तत्र स्थातुं स्ववेश्मवत् ।। ५६ ।। इतश्च पुर्यां चम्पायां नृपतिर्जनमेजयः । रुद्धः कालनरेन्द्रेण युयुधे च ननाश च ।। ५७ ॥ भज्यमाने पुरे तत्र नेशुरन्तःपुरस्त्रियः । कुरङ्ग्य इव दिङ्मूढा दीप्यमाने दवानले ॥ ५८ ॥ चम्पेशस्य नागवती प्रिया स्वसुतया सह । प्रणष्टा मदनावल्या तत्रागात्तापसाश्रमे ।। ५९ ।। पद्मस्य मदनावल्याश्चान्योऽन्यमदनास्त्रयोः । जज्ञे दर्शनमन्योऽन्यमनुरागश्च तत्क्षणम् ।।६० ॥ जातानुरागां तां ज्ञात्वा जनन्येवमवोचत । पुत्रि मा चापलं कार्षीनैमित्तिकवचः स्मर ।। ६१ ।। त्वं हि नैमित्तिकेनैवमाख्यातासि भविष्यसि । प्रधानपत्नी षट्खण्डभरतक्षेत्रशासितुः ।। २ ॥ पुरुषे यत्र तत्रापि मानुरागं ततः कृथाः । संयता तिष्ठ समये चक्री त्वां परिणेष्यति ।। ६३ ।। तद्विप्लवभयात्पद्ममूचे कुलपतिस्ततः । यत्राचालीस्तत्र वत्स गच्छ स्वस्त्यस्तु तेऽनघ ।। ६४ ॥ श्रुत्वा दध्यौ कुमारोऽपि युगपद्वौ न चक्रिणौ । चक्री भाव्यहमेवेह तन्ममैव हि पल्यसौ ।। ६५ ।। निश्चित्यैवं महापद्मो निर्गतस्तापसाश्रमात् । पर्यटन्नासदत् सिन्धुसदनं नाम पत्तनम् ।। ६६ ।। तदा च बहिरुद्याने पौरनार्यो मधूत्सवे । चिक्रीडुर्विविधं तत्र स्थिताः कन्दर्पशासने ।। ६७ ।। तत्केलितुमुलं श्रुत्वा महासेनमहीपतेः । स्तम्भमुन्मूलयामास कदलीकाण्डवत् करी ॥६८ ॥ निपात्यारोहको सद्यः शय्यासंसक्तरेणुवत् । अङ्गे वायोरपि स्पर्शासह उत्तब्धरोमकः ।।६९ ॥ १ प्रियोऽतिथिसमागमो येषां तैः । वसन्तोत्सवे ।
कन्यापरिणयनम् ।
॥९६॥