________________
त्रिषष्टिशलाका
पुरुषचरिते
॥९५॥
इतश्च प्रान्तवास्तव्यो नाम्ना सिंहबलो नृप । दुर्गस्थ इत्यतिबली नभःस्थ इव राक्षसः ॥ ४० ॥ अवस्कन्दमवस्कन्दं महापद्मस्य मण्डलम् । प्राविशत् स्वं पुनर्दुर्गं न धर्तुं कोऽपि तं क्षमः ।। ४१ ।। रुषितोऽथ महापद्मोऽवोचन्नमुचिमन्त्रिणम् । क्वचित्कञ्चिदिहोपायं वेत्सि सिंहबलग्रहे ।। ४२ ।। सोऽप्यूचे देव वेद्मीति वचो वच्मि कथं ह्यहम् । गैहेनर्दीत्यपवादः सुलभो गर्जतां गृहे ॥ ४३ ॥ कृत्वोपायं फलेनैव स्वामिनो दर्शयाम्यहम् । उपायं वचसा वक्तुं कातरा अपि पण्डिताः ॥ ४४ ॥ इत्युक्त्वा हृष्टचित्तेन महापद्मेन तत्क्षणम् । स आदिष्टो ययौ तस्य दुर्गं वायुरिवास्खलत् ॥ ४५ ॥ तीक्ष्णोपायः स तद्दर्गं भङ्क्त्वा सिंहबलं च तम् । मृगं सिंह इवादाय महापद्ममुपाययौ ।। ४६ ।। वरं वृणीष्वेति महापद्मेनाभिहितो मुदा । उचे नमुचिमन्त्र्येवमादास्ये समये वरम् ॥ ४७ ॥ एवं च प्रतिपन्नार्थो यौवराज्यमपालयत् । महापद्मो नमुचिना कृतसाचिव्यमुच्चकैः ॥ ४८ ॥ ज्वालयाथ महापद्ममात्रार्हत्प्रतिमारथः । कर्णीरथ इवाकारि भवसागरतारणे ॥ ४९ ॥ मिथ्यादृष्ट्या च सपत्नीमात्रा लक्ष्म्यभिधानया । अकार्यत ब्रह्मरथस्तत्प्रतीपविधित्सया ।। ५० ।। अयं ब्रह्मरथः पूर्वं परिभ्रमतु पत्तने । पश्चादर्हद्रथ इति लक्ष्म्यायाच्यत भूपतिः ।। ५१ ।। 1 ऊचे ज्वालापि राजानं न प्राग्जैनरथो यदि । यात्रां करिष्यति पुरे तदाह्यनशनं मम ॥ ५२ ॥ ततश्च संशयापन्नो रथयोरुभयोरपि । यात्रां राजारुणत् का हि मध्यस्थस्यापरा गतिः ॥ ५३ ॥ ततश्च मातृदुःखेन महापद्मोऽतिपीडितः । निशि सुप्तेषु लोकेषु निर्ययौ हस्तिनापुरात् ॥ ५४ ॥ १ गृहे गर्जनशीलः । २ प्रवहणं । ३ प्रतीपं प्रतिकूलम् ।
षष्ठं पर्व अष्टमः सर्गः महापद्मचक्रिचरितम् ।
नमुचेः वरप्रदानम् ।
॥९५॥