________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३२॥
सोऽन्यदोचे निशाशेषे प्रिये रत्नप्रभेऽचिरात् । दक्षिणे भरतार्धेऽद्य गच्छामः क्रीडितुं सुखम् ।। २९४ ।। आमेत्युक्तवती सा च स च द्वावपि विद्यया । जग्मतुः पद्मिनीखण्डे सुव्रतायाः प्रतिश्रयम् ।। २९५ ।। स्थित्वा प्रतिश्रयद्वारे वीरभद्रो जगाद ताम् । आचम्य यावदायामि तिष्ठेस्तावदिहैव हि ।। २९६ ।। इत्युक्त्वाल्पां भुवं गत्वा तद्रक्षणकृते पुनः । तस्थौ निलीय तत्रैव राजकीय इव स्पशः ।। २९७ ॥ साप्येकिंका क्षणादूर्ध्वं चक्रवाकीव निष्प्रिया । तारं रोदितुमारेभे स्त्रीस्वभावोऽयमीदृशः ।। २९८ ॥ श्रुत्वा च करुणं शब्दं गणिनी करुणासरित् । स्वयमुद्घाटयामास कपाटौ तां ददर्श च ॥ २९९ ॥ इत्यभ्याधाच्च गणिनी वत्से का त्वं कुतोऽभ्यगाः । कथमेकाकिनी चासि कुतो हेतोश्च रोदिषि ॥ ३०० ॥ नत्वा सोवाच वैताढ्यात् पत्या सममिहागमम् । आचान्त्यै स गतोऽद्यापि चिरयत्येव मे पतिः ॥ ३०१ ॥ मुहूर्तमपि च स्थातुं सहते मां विना न हि । आशङ्के कारणं तेन सुमहन्मातरातुरा ।। ३०२ ।। मन्मानसमवतप्ते नकुलस्थितवत्ततः । अस्मि धारयितुं प्राणानपि संप्रत्यलं न हि ।। ३०३ ।। सानुकम्पं सुव्रतोचे मा स्म भैषीः पतिव्रते । स्वस्था प्रतिश्रये तिष्ठ यावदायाति ते पतिः ॥ ३०४ ॥ गणिन्या बोधिता सैवं प्रविवेश प्रतिश्रयम् । जायां स्थाने गतां दृष्ट्वा वीरभद्रोऽप्यपासरत् ॥ ३०५ ।। स्वेच्छावामनरूपः स क्रीडया पर्यटन् पुरे । मनो जहार पौराणां विचित्रा दर्शयन्कलाः ।। ३०६ ॥ सोऽथ राजानमीशानचन्द्रमप्यत्यरञ्जयत् । एकापि हि हरेच्चित्तं किं पुनः सकलाः कलाः ।। ३०७ ॥ सापि चानङ्गसुन्दर्या प्रियदर्शनयापि च । रत्नप्रभैवं जगदे कीदृशः कश्च ते पतिः ॥ ३०८ ॥
१ राज्ञो गूढचरः । २ एकैव एकिका ।
৬*
षष्ठं पर्व द्वितीयः
सर्गः
श्रीअरनाथजिन
चरितम् ।
वीरभद्र
वृत्तान्तः ।
।।३२ ॥
"