________________
त्रिषष्टिशलाकापुरुषचरिते
॥३१॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
SSSSSSSSS
पत्तने पद्मिनीखण्डे सुव्रतायाः प्रतिश्रये । धर्मानुष्ठाननिरते भगिन्याविव तिष्ठतः ।। २८० ॥
॥युग्मम् ॥ उभयोरपि पल्योस्तु तया कल्याणवार्तया । सर्वाङ्गीणं सिक्त इव सुधया श्वसिति स्म सः ।। २८१ ।। अब्धेरुत्तीर्णमात्रोऽपि गुटिकां श्यामिकाकरीम् । सोऽपनीयाददे वर्णं सहजं गौरलक्षणम् ।। २८२ ॥ वज्रवेगवतीकुक्षिभवां दुहितरं निजाम् । रत्नप्रभाख्यां तेनोदवाहयद्रतिवल्लभः ॥२८३ ॥ बुद्धदास इति नामात्मीयं तत्राशशंस सः । समं च रत्नप्रभयान्वभूद्वैषयिकं सुखम् ।। २८४ ॥ संभूय गच्छतो विद्याधरान सोऽन्येधुरैक्षत । क्वैते वेगेन गच्छन्तीत्यपृच्छच्च निजां प्रियाम् ।। २८५ ।। आख्यद्रलप्रभाप्येवमत्राद्रौ शाश्वतार्हताम् । यात्रां कर्तुं प्रयान्त्येते वेगाद्विद्याधराः प्रिय ।। २८६ ।। एवमाकर्ण्य स श्राद्धो बुद्धदासाभिधः सुधीः । वैताठ्यशैलशिखरमारुरोह तया सह ।।२८७ ॥ ववन्दे तत्र चैत्यानि स भक्त्या शाश्वतार्हताम् । देवाग्रे गीतनृत्तादि चक्रे रत्नप्रभापि च ।। २८८ ।। सोऽथाब्रवीदपूर्वोऽयं देवो मम यतः प्रिये । सिंहलद्वीपवास्यस्मि बुद्धोऽस्मकुलदेवता ।। २८९ ॥ साप्यूचे नाथ तेनैव हेतुना निगदस्यदः । अपूर्वो मम देवोऽयं देवदेवो ह्ययं प्रभुः ।। २९० ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन्परमेश्वरः ॥२९१ ॥ देवा न बुद्धब्रह्माद्याः संसारावर्तपातिनः । स्वस्य मोहादिपिशुनमक्षसूत्रादिबिभ्रतः ।। २९२ ।। ततो विचित्रक्रीडाभिः क्रीडतोरन्वहं तयोः । कियानपि ययौ कालो रतिसागरमग्नयोः ।। २९३ ।।
वीरभद्रवृत्तान्तः ।
॥३१॥
१ मोहादिसूचकम् ।