________________
त्रिषष्टिशलाकापुरुषचरिते
॥३०॥
| षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
सिंहलद्वीपचैत्यानि मातर्वन्दस्व मद्गिरा । रचिताञ्जलिरित्यूचे सुव्रतां तां महाव्रताम् ।। २६५ ।। सुव्रताप्यभ्यधत्तैवं सिंहलादागतासि किम् । कथमेकाकिनी नैषा ह्याकृतिर्निष्परिच्छदा ।। २६६ ॥ सर्वं सुस्था कथयिष्याम्येवमुक्ता तया सह । सुव्रतागणिनी शीघ्रं जगाम स्वं प्रतिश्रयम् ।। २६७ ॥ वन्दमाना साथ साध्वीरसाधारणभक्तितः । प्रियदर्शनया तत्र दृष्टा च सुतया तव ।। २६८ ।। पृष्टा च सा सुव्रतया प्रियदर्शनयापि च । सुव्रतोदर्शनप्रान्तमाख्यद्वृत्तान्तमात्मनः ।। २६९ ।। प्रियदर्शनया सोचे वीरभद्रस्य सुन्दरि । सर्वं कलादि संवादि वर्णेन तु स कीदृशः ।। २७० ।। तया चोक्ते श्याम इति जगाद प्रियदर्शना । विसंवदति मद्भरिको वर्णस्तु वर्णिनी ।। २७१ ।। गणिन्युवाच ते धर्मस्वसेयं प्रियदर्शना । वत्से सहानया तिष्ठ धर्मानुष्ठानतत्परा ।। २७२ ॥ एवं सुव्रतया सोक्ता प्रियदर्शनयापि च । दर्शनात्यन्तवात्सल्यास्थात्तत्रानङ्गसुन्दरी ।। २७३ ।। इतश्च वीरभद्रोऽपि भन्ने प्रवहणे तदा । एकस्मिन् फलके लग्नस्ताड्यमानो महोर्मिभिः ।। २७४ ।। रतिवल्लभसंज्ञेन विद्याधरवरेण सः । सप्तमे दिवसेऽदर्शि निन्ये वैताढ्यमूर्ध्नि च ।। २७५ ।। स्ववल्लभाया मदनमञ्जुकायाश्च सोऽर्पितः । पुत्रत्वेन स्वयं तेनापुत्रेण परया मुदा ॥२७६ ।। ताभ्यां पृष्टश्च सोऽम्भोधिपातवृत्तान्तमादितः । आत्मनः सकलत्रस्य कथयित्वैवब्रवीत् ॥ २७७ ॥ अहं तात त्वयाकृष्टो यमास्यादिव सागरात् । कथं सा वर्ततेऽनङ्गसुन्दरीति न वेद्मि तु ।। २७८ ॥ आभोगिन्या विद्यया च ज्ञात्वाख्यद्रतिवल्लभः । वल्लभे भवतोऽनङ्गसुन्दरीप्रियदर्शने ।। २७९ ॥ १ उपाश्रयम् । २ सुव्रताया दर्शनं यावत् । ३ समानम् । ४ हे व्रतिनि । ५ यममुखात् ।
वीरभद्रवृत्तान्तः ।
॥३०॥