________________
त्रिषष्टिशलाका
पुरुषचरिते 118 11
मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ११० ॥ तदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता । तपः श्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥ १११ ॥ मनः शुद्धयैव कर्तव्यो रागद्वेषविनिर्जयः । कालुष्यं येन हित्वात्मा स्वस्वरूपेऽवतिष्ठते ॥ ११२ ॥ श्रुत्वेति देशना भर्तुर्बहवः प्राव्रजञ्जनाः । स्वयंभूप्रमुखाः पञ्चत्रिंशद्गणभृतोऽभवन् ।। ११३ ॥ पूर्णायामादिपौरुष्यां देशनाविरते प्रभौ । स्वयंभूर्देशनां स्वामिपादपीठस्थितोऽकरोत् ।। ११४ ।। पूर्णद्वितीयपौरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वा श्रीकुन्थुमीयुश्च स्वं स्वं स्थानं सुरादयः ।। ११५ ।। तत्तीर्थभूश्च गन्धर्वयक्षो हंसरथोऽसितः । दधानो दक्षिणौ बाहुदण्डौ वरदपाशिनौ ॥ ११६ ॥ मातुलिङ्गाङ्कुशधरौ धारयन् दक्षिणेतरौ । श्रीमतः कुन्थुनाथस्य जज्ञे शासनदेवता ॥ ११७ ॥ तत्तीर्थभूर्बलादेवी गौराङ्गी केकिवाहना । बिभ्राणा दक्षिणौ बाहू बीजपूरकशूलिनौ ॥ ११८ ॥ मुषण्ढीपङ्कजभृतौ बिभ्रती दक्षिणेतरौ । सदा सन्निहिता जज्ञे प्रभोः शासनदेवता ॥। ११९ ।। ताभ्याममुक्तसान्निध्यस्ततः स्थानादथान्यतः । भव्यजन्तूपकाराय विजहार जगद्गुरुः ।। १२० ।। षष्टिसहस्री साधूनां सा साध्वीनां सषट्शता । चतुर्दशपूर्वभृतां सप्तत्यधिकषट्शती ॥ १२१ ॥ सहस्रद्वितयं सार्धमवधिज्ञानशालिनाम् । चत्वारिंशत्त्रयस्त्रिंशच्छती चापि मनोविदाम् ॥ १२२ ॥ केवलज्ञानिनां त्रीणि सहस्राणि शतद्वयम् । शतानि चैकपञ्चाशद्वैक्रियलब्धिशालिनाम् ।। १२३ । संजातवादलब्धीनां सहस्रद्वितयं पुनः । श्रावकाणां लक्षमेकं न्यूनाशीतिसहस्रयुक् ।। १२४ ॥ १ कृष्णवर्णः । 'मुषण्ढी' इति अभिधानचिन्तामणौ २ षड्भिः शतैः सह वर्तमाना सा षष्टिसहस्त्री ।
षष्ठं पर्व
प्रथमः
सर्गः
श्री कुन्धुस्वामिचरितम् ।
परिवारः ।
॥९॥