SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१०॥ श्राविकाणां त्रीणि लक्षाण्येकाशीतिसहस्यपि । आकेवलाद्विहरतः परिवारोऽभवत्प्रभोः ॥ १२५ ॥ गतेष्वब्दसहस्रेषु त्रयोविशेषु केवलात् । चतुस्त्रिंशत्सहितेषु शतेष्वपि स सप्तसु ।। १२६ ।। निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं ययौ प्रभुः । समं मुनिसहस्रेण शिश्रियेऽनशनं पुनः ।। १२७ ।। मासान्ते राधकृष्णादितिथौ भे कृत्तिकासु च । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ।। १२८ ।। कौमारराज्यचक्रित्वव्रतेषु समभागकम् । आयुः पञ्चनवत्यब्दसहस्रमभवत् प्रभोः ।। १२९ ।। श्रीशान्तिनाथनिर्वाणादर्धपल्योपमे गते । कुन्थुनाथजिनेन्द्रस्य निर्वाणं समजायत ।। १३० ।। निर्वाणपर्वमहिमा विदधे सुपर्वनाथैः सुपर्वसहितैः परमेश्वरस्य । दंष्ट्रारदादि परिपूजयितुं यथावन्निन्ये च तैर्निजनिजेषु निकेतनेषु ।। १३१ ।। षष्ठं पर्व प्रथमः सर्गः श्रीकुन्थुस्वामिचरितम् । निर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीकुन्थुनाथचरित्रवर्णनो नाम प्रथमः सर्गः । ॥१०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy