________________
त्रिषष्टिशलाका
पुरुषचरि ॥८ ॥
अविज्ञेयप्रभावायाज्ञेयरुपाय तायिने । नमो भगवते सप्तदशाय भवतेऽर्हते ।। ९६ ।। प्रणामोऽपि त्वयि विभोऽचिन्त्यचिन्तामणिर्नृणाम् । किं पुनर्मनसा ध्यानं स्तवनं वचसापि वा ।। ९७ ।। प्रणमे स्तवने ध्याने प्रभो त्वद्विषये मम । प्रवृत्तिः सर्वदाप्यस्तु कृतमन्यैर्मनोरथैः ।। ९८ ।। स्तुत्वैवं दिविषन्नाथे कुरुराजे च तस्थुषि । श्रीकुन्थुनाथो भगवान् विदधे धर्मदेशनाम् ।। ९९ ।। योनिलक्षचतुरशीत्यावर्तापातभीषणः । अयं खलु भवाम्भोधिर्महादुःखनिबन्धनम् ।। १०० ।। तरणे च भवाम्भोधेरलंभूष्णुर्विवेकिनाम् । यानपात्रं मनः शुद्धिरिन्द्रियोर्मिजयोर्जिता ।। १०१ ।। दीपिका खल्वैनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः ।। १०२ ।। सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां न सन्ति सैव कार्या बुधैस्ततः ॥ १०३ ॥ मनः शुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ।। १०४ ।। तपस्विनो मनःशुद्धिं विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ।। १०५ ।। तप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित् ।। १०६ ।। मैनः क्षपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसारावर्तगर्ते जगत्त्रयीम् ॥ १०७ ॥ अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुर्ग्रामं स पह्नुरिव हस्यते ।। १०८ ।। मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ।। १०९ ॥
१ रक्षित्रे । २ अनपायिनी । ३ मोक्षमार्गप्रकाशिनी । ४ यद्यस्मात्कारणान्मनसः शुद्धौ सत्यामविद्यमाना अपि गुणा भवन्ति, मनः शुद्धौ चासत्यां विद्यमाना अपि गुणा न भवन्ति । ५ मन एव क्षपाचरो राक्षसः । ६ निःशङ्कम् ।
* জজজ
षष्ठं पर्व
प्रथमः
सर्गः
श्रीकुन्धुस्वामि
चरितम् ।
देशना ।
॥८ ॥