________________
त्रिषष्टि
शलाका
पुरुषचरिते
11911
अन्येद्युर्विहरन्नागात् सहस्राम्रवणं प्रभुः । कृतषष्ठस्तिलकाद्रौ तस्थौ च प्रतिमाधरः ॥ ८१ ॥ चैत्रशुद्धतृतीयायां कृत्तिकास्थे निशाकरे । घातिकर्मक्षयात्तत्र संजज्ञे केवलं प्रभोः ॥ ८२ ॥ सेन्द्रैश्चतुर्विधैर्देवनिकायैरेत्य तत्क्षणम् । चक्रे समवसरणं प्राकारत्रयमण्डितम् ॥ ८३ ॥ सुरैः संचार्यमाणेषु स्वर्णाब्जेषु ददत् क्रमौ । पूर्वद्वारेण समवसरणं प्राविशद्विभुः ॥ ८४ ॥ विंशत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपम् । तत्र प्रदक्षिणीचक्रे धर्मचक्री जगद्गुरुः ।। ८५ ।। तस्याधश्छन्दके जल्पंस्तीर्थाय नम इत्यथ । पूर्वसिंहासने पूर्वाभिमुखः स्वाम्युपाविशत् ।। ८६ ।। स्वामिनः प्रतिरूपाणि दिक्ष्वन्यास्वपि तत्क्षणम् । तादृशि तत्प्रभावेण विचक्रुर्व्यन्तरामराः ।। ८७ ।। अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । मध्यवप्रे तु तिर्यञ्चोऽधस्तने वाहनानि तु ॥ ८८ ॥ ज्ञात्वा च समवसृतं प्रभुमागात्कुरूद्वहः । नमस्कृत्यानुशक्रं च निषसाद कृताञ्जलिः ।। ८९ । भूयोऽपि स्वामिनं नत्वा सौधर्मेन्द्रकुरूद्वहौ । उद्वहन्तौ हृदि मुदं प्रारेभाते इति स्तुतिम् ॥ ९० ॥ चतुर्धा धर्मदेष्टारं चतुर्गात्रं चतुर्मुखम् । चतुर्थपुरुषार्थेशं त्वां स्तुमः परमेश्वरम् ॥ ९१ ॥ चतुर्दशमहारत्नीं निःसंगत्वात्त्वमत्यजः । रत्नत्रयीं त्वनवद्यां दधासि जगदीश्वर ।। ९२ ।। मनो हरसि विश्वस्य निर्मनस्कस्तथाप्यसि । उत्तप्तस्वर्णवर्णस्त्वं ध्यायसे चेन्दुसन्निभः ।। ९३ ।। निःसंगोऽपि महर्द्धिस्त्वं ध्येयोऽपि ध्यातृतास्पदम् । कोटिशोऽप्यावृतो देवादिभिः कैवल्यभागसि ।। ९४ ।। विश्वस्य रागं तनुषे वीतरागोऽसि च स्वयम् । अकिंचनोऽपि भवसि जगतः परमर्द्धये ।। ९५ ।। १ चतुर्दशानां महारत्नानां समाहारः । २ कैवल्यं एकाकित्वमिति विरोधः केवलज्ञानमिति तत्परिहारः ।
I
षष्ठं पर्व
प्रथमः सर्गः
श्री कुन्यु - स्वामिचरितम् ।
कैवल्यम् ।
11911