________________
त्रिषष्टिशलाकापुरुषचरिते
॥६॥
षष्ठं पर्व प्रथमः सर्गः श्रीकुन्थुस्वामिचरितम् ।
चक्रे चक्रित्वाभिषेकः प्रभोर्देवैर्नरैरपि । उत्सवश्च द्वादशाब्दी पुरे तस्मिन्नजायत ।। ६७ ॥ त्रयोविश्यब्दसहस्राः सार्धाष्टमशता ययुः । श्रीकुन्थुस्वामिनश्चक्रवर्तिवैभवशालिनः ।।६८ ॥ तीर्थ प्रवर्तय स्वामिन्निति लोकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं ददौ राज्यं च सूनवे ।। ६९ ॥ स्वामी नृपैश्च देवैश्च कृतनिष्क्रमणोत्सवः । विज़याशिबिकारूढः सहस्राम्रवणं ययौ ।। ७० ॥ चुम्बता चम्पकलताधूतयष्टीर्विधुन्वता । वासन्तिका नर्तयता निर्गुण्डीरभिमृदुनता ॥७१ ॥ आलिङ्गिता च लवलीः स्पृशता नवमल्लिकाः । पाटलीश्च पाटयता पद्मिनीश्चाभिसर्पता ।।७२ ।। आक्रामताशोकलताः कदलीरनुगृह्णता । यूनेव पर्वमानेन दक्षिणेन मनोरमम् ॥ ७३ ॥ दोलान्दोलनसंसक्तललनालटभीकृतम् । कुसुमावचयक्रीडाव्यग्रपौरेभ्यदारकम् ॥७४ ॥ उन्मत्तकोकिलालापैर्मधुरैश्चालिकूजितः । विहितस्वागतमिवोद्यानं तयाविशत्प्रभुः ॥७५ ॥
॥पञ्चभिः कुलकम् ॥ शिबिकायाः समुत्तीर्य त्यक्त्वालङ्करणादिकम् । वैशाखकृष्णपञ्चम्यां कृत्तिकास्वह्नि पश्चिमे ॥७६ ।। समं राजसहस्रेण षष्ठेन प्राव्रजत्प्रभुः । चतुर्थं प्राप च ज्ञानं मनःपर्ययसंज्ञकम् ।।७७ ॥ पुरे चक्रपुरे व्याघ्रसिंहपार्थिववेश्मनि । द्वितीयेऽह्नि व्यधात् स्वामी परमान्नेन पारणम् ॥७८ ॥ विदधे वसुधारादिपञ्चकं तत्र नाकिभिः । रत्नपीठं व्याघ्रसिंहेनाङ्ग्रिस्थाने पुनः प्रभोः ॥७९ ॥ निःसङ्गोऽप्रतिबद्धश्च समीरण इव प्रभुः । छद्मस्थः षोडशाब्दानि विजहार वसुंधराम् ।। ८० ॥ १ आम्रलताः । २ वायुना । ३ दोलान्दोलने संसक्ताश्च ता ललनाश्च ताभिः सुन्दरीकृतम् । ४ देवैः ।
प्रव्रज्या
।