________________
-
त्रिषष्टिशलाकापुरुषचरिते
॥५॥
षष्ठं पर्व प्रथमः सर्गः
श्रीकुन्थु
स्वामिचरितम् ।
पित्राज्ञया पर्यणैषीत् स काले राजकन्यकाः । कर्मभोगफलं छेत्तुं चान्यथा शक्यते न हि ।। ५२ ।। त्रयोविंश्यब्दसहस्रेष्वर्धाष्टमशतेषु च । गतेषु जन्मतो राज्यं प्रभुः पित्राज्ञयाग्रहीत् ।। ५३ ।। गतेष्वब्देषु तावत्सु भर्तुर्मण्डलिकस्थितौ । मध्येऽस्त्रसदने चक्ररत्नं समुदपद्यत ।। ५४ ।। चक्रेऽर्चा चक्ररत्नस्य जगदर्योऽपि शूरसूः । महात्मानो हि कुर्वन्ति सेवकेष्वपि सत्कृतिम् ॥ ५५ ।। मागधेशं वरदामप्रभासाधिपती अपि । क्रमेण साधयामास चक्ररत्नानुगः प्रभुः ।।५६ ।। सिन्धुदेवीं वैताढ्याद्रिकुमारं कृतमालकम् । स्वयं सोऽसाधयदथ सेनान्या सिन्धुनिष्कुटम् ॥ ५७ ॥ सेनान्योद्घाटितद्वारा प्रविश्य च तमिस्रया । निर्गत्य चापातनाम्नो म्लेच्छान् प्रभुरसाधयत् ।। ५८ ।। सेनान्या च वशीचक्रे द्वितीयं सिन्धुनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारं स्वाम्यसाधयत् ।। ५९ ।। कल्प इत्यूषभकूटे निजं नाम लिलेख च । ववले च ततः स्थानाच्चक्ररत्नानुगः प्रभुः ।।६०॥ आगतश्चोपवैताढ्यं तच्छ्रेणिद्वयवर्तिभिः । विद्याधरेन्द्ररानचे विविधोपायनैः प्रभुः ।।६१ ॥ गङ्गादेवीं नाट्यमालं स्वयं प्रभुरसाधयत् । गाङ्गं तु निष्कुटं सैन्यपतिना म्लेच्छसङ्कुलम् ।। ६२ ।। सेनान्योद्घाटितखण्डप्रपातागुहया प्रभुः । प्रविश्य वैताळ्यगिरेर्निर्ययौ सपरिच्छदः ॥६३ ।। नैसर्पप्रमुखास्तत्र नवापि निधयः प्रभोः । सिध्यन्ति स्म स्वयमपि गङ्गामुखनिवासिनः ।। ६४ ।। द्वितीयं निष्कुटं गाङ्गं सेनान्यासाधयत् प्रभुः । विजिग्ये भरतक्षेत्रं षड्भिर्वर्षशतैरिति ।। ६५ ।।। संपूर्णचक्रभृत्सम्पन्नरामरनिषेवितः । ततो निवृत्तः श्रीकुन्थुराययौ हस्तिनापुरम् ।। ६६ ।। १ अस्त्रशालायाम् । २ आचारः इति हेतोः । ३ वैताब्यसमीपम् ।
दिग्विजयः ।
%%%%%%%%%%%%%%%%%%%%%%%%