________________
त्रिषष्टिशलाका
पुरुषच
॥४ ॥
#
शक्रः पञ्चवपुर्भूत्वा मेरुशैलेऽनयत् प्रभुम् । इन्द्राश्च स्नपयामासुस्त्रिषष्टिस्तीर्थवारिभिः ।। ३८ ।। ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयत्ततः । कृत्वा पूजादिकं चोच्चैरिति स्तोतुं प्रचक्रमे ।। ३९ ।। अद्य नीराणि क्षीरोदप्रभृतीनामुदन्वताम् । पद्मप्रभृतिह्रदानां पद्मानि च पयांसि च ।। ४० ।। ओषध्यः क्षुद्रहिमवत्प्रभृतीनां महीभृताम् । भद्रशालप्रभृतीनां वनानां कुसुमान्यपि ॥ ४१ ॥ मलयाधित्यकादीनां भूमीनां चन्दनानि च । युष्मत्स्नात्रोपयोगेन कृतार्थानि जगत्पते ॥ ४२ ॥ ॥ त्रिभिर्विशेषकम् ॥ कृतार्थमिदमैश्वर्यमखिलानां दिवौकसाम् । देव त्वज्जन्मकल्याणमहोत्सवविधानतः ।। ४३ । उत्कृष्टो भूभृतामद्य तीर्थभूतोऽयमद्य च । प्रासाद इव बिम्बेन त्वया मेरुरलङ्कृतः ।। ४४ ।। अद्य चक्षूंषि चक्षूंषि पाणयश्चाद्य पाणयः । दर्शनेन स्पर्शनेन भवतो भुवनेश्वर ॥ ४५ ॥ अद्य नः सफलं नाथावधिज्ञानं निसर्गजम् । जिन ते जन्म विज्ञाय जन्मोत्सवमकृष्महि ।। ४६ ।। यथाद्य हृदयद्वारे स्नात्रकाले ममाभवः । तथैव हृदयस्यान्तरपि भूयाश्चिरं प्रभो ॥ ४७ ॥ जगन्नाथमिति स्तुत्वा गृहीत्वाशु पुरन्दरः । गत्वा च हास्तिनपुरं श्रीदेव्याः पार्श्वतोऽभुचत् ॥ ४८ ॥ चक्रे जन्मोत्सवः सूनोः शूरेणापि महीभुजा । यद्वोत्पन्ने तीर्थनाथे सदोत्सवमयं जगत् ॥ ४९ ॥ दृष्टो देव्या गर्भगेऽस्मिन् कुन्थ्वाख्यो रत्नसंचयः । कुन्थुरित्यभिधां तेन स्वामिनो विदधे पिता ।। ५० ।। शक्रसङ्क्रमिताङ्गुष्ठपीयूषं भगवान् पिबन् । क्रमेण वर्धमानोऽभूत् पञ्चत्रिंशद्धनून्नतः ।। ५१ ।।
* জ জ
षष्ठं पर्व
प्रथमः सर्गः
श्री कुन्धु
स्वामिचरितम् ।
जन्मोत्सवः ।
118811