________________
त्रिषष्टिशलाका
पुरुषचरिते
113 ||
रूपलावण्यपुण्याङ्गी शीलनैर्मल्यशालिनी । श्रीदेवीव हरेस्तस्य नाम्ना श्रीरिति पल्यभूत् ॥ २३ ॥ किं सुधासारणिः किं वा सुधांशोरधिदेवता । सुधां क्षरन्ती वचसा शुशुभे सा शुभानना ।। २४ ।। मन्दमेवानवद्याङ्गी जगाम च जगाद च । हंसीव राजहंसस्य तस्य सा प्राणवल्लभा ।। २५ ।। तया देव्या समं भोगान् बुभुजे शूरपार्थिवः । निर्विघ्नसुखनिर्ममो वैमानिक इवामरः ।। २६ ।। इतश्च सर्वार्थसिद्धे विमाने पूरयन्निजम् । जीवः सिंहावहस्यायुस्त्रयस्त्रिंशार्णवप्रमम् ।। २७ ।। श्रावणासितनवम्यां कृत्तिकास्थे निशाकरे । च्युत्वा ततस्तस्य जीवः श्रियः कुक्षाववातरत् ॥ २८ ॥ चतुर्दन्तो गजः श्वेतः केकुद्मान् कुमुदद्युतिः । केसर्युत्केसरो लक्ष्मीरभिषेकमनोरमा ॥ २९ ॥ पञ्चवर्णं पुष्पदाम पार्वणो रजनीकरः । प्रद्योतनः कृतद्योतः सपताको महाध्वजः ।। ३० ।। शातकौम्भः पूर्णकुम्भः पद्मपूर्ण सरोवरम् । सरितां पतिरुद्वीचिर्विमानं रत्ननिर्मितम् ॥ ३१ ॥ रत्नपुञ्जऽभ्रंलिहरुग्निर्धूमश्च विभावसुः । एते चतुर्दश स्वप्नास्तदा ददृशिरे तया ।। ३२ ।। देव्या च कथितान् स्वप्नान् व्याचख्यौ नृपतिः प्रगे । स्वप्नैरेभिः सुतो भावी चक्रभृत्तीर्थकृच्च ते ॥ ३३ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । रौधकृष्णचतुर्दश्यां कृत्तिकास्थे निशाकरे ॥ ३४ ॥ ग्रहेषु चोच्चसंस्थेषु छागाङ्कं काञ्चनच्छविम् । सर्वलक्षणसंपूर्ण श्रीदेवी सुषुवे सुतम् ।। ३५ ।। नारकाणां क्षणं सौख्यमुद्योतश्च जगत्त्रये । अभूत्तदा चासनानि शक्रादीनां चकम्पिरे ।। ३६ ।। उपेत्यासनकम्पेन कँर्मकर्य इव क्षणात् । षट्पञ्चाशद्दिक्कुमार्यः सूतिकर्माणि चक्रिरे ॥ ३७ ॥ १ वृषः । २ पूर्णिमासम्बन्धी । ३ सूर्यः । ४ सौवर्णः । ५ प्रातः काले । ६ वैशाखकृष्णचतुर्दश्याम् । ७ किङ्कर्यः ।
এ
*
षष्ठं पर्व प्रथमः
सर्गः
श्री कुन्धुस्वामि
चरितम् ।
गर्भावतारो
जन्म च ।
॥३॥