________________
त्रिषष्टिशलाकापुरुषचरिते ||१४८॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
पूर्वस्नेहेन ते नित्यं ढौकनं पञ्चवस्तुकम् । अद्भुतं विदधाते तौ राजानीहि ते त्वमी ।। ५२८ ॥ अमीभिः सह तद्भोक्तुं त्वमिष्टैरीशिषे नृप । नेयत्कालमभुक्थास्त्वमभीष्टानविदन्नमून् ।। ५२९ ।। श्रुत्वा प्रभोर्वचांस्येवं राज्ञस्तेषां च तत्क्षणम् । जातिस्मरणमुत्पेदे प्राक्स्नेहोद्योतदीपकः ।। ५३०॥ भगवन्तं ततो नत्वा कुरुचन्द्रमहीपतिः । तान् सोदर्यानिव स्नेहादनैषीन्निजवेश्मनि ।। ५३१ ।। देवा अपि प्रभुं नत्वा स्थानं निजनिजं ययुः । भगवानप्यतोऽथागादनुगृह्णन्महीतलम् ।। ५३२ ।। श्रमणानां सहस्राणि द्वाषष्टिनैष्ठिकात्मनाम् । साध्वीनामेकषष्टिस्तु सहस्राः षट् शतानि च ।। ५३३ ।। चतुर्दशपूर्वभृतां शतान्यष्टौ महात्मनाम् । तथा सहस्रत्रितयमवधिज्ञानधारिणाम् ।। ५३४ ।। चत्वारि च सहस्राणि मनःपर्यवशालिनाम् । केवलज्ञानभाजां त्रिचत्वारिंशच्छतानि च ।। ५३५ ।। जातवैक्रियलब्धीनां सहस्राणि षडेव हि । वादलब्धिमतां द्वे तु सहस्रे सचतुःशते ।। ५३६ ।। श्रावकाणामुभे लक्षे सहस्रा नवतिस्तथा । सहस्रत्रिनवत्यग्रा श्राविकाणां त्रिलक्ष्यपि ।। ५३७ ।। आरभ्य केवलाद्वर्षसहस्रान् पञ्चविंशतिम् । एकाब्दोनां विहरतः परिवारोऽभवत् प्रभोः ।। ५३८ ।। निर्वाणकालं ज्ञात्वा च सम्मेताद्रि प्रभुर्ययौ । प्रपेदेऽनशनं सार्धं मुनीनां नवभिः शतैः ।। ५३९ ।। मासान्ते च ज्येष्ठकृष्णत्रयोदश्यां निशाकरे । भरणीस्थे ययौ स्वामी मोक्षं तैर्मुनिभिः सह ।। ५४० ॥ कौमारे मण्डलीकत्वे चक्रभृत्त्वे व्रतेऽपि च । प्रत्येकं लक्षतुर्यांशोऽब्दलक्षायुरिति प्रभुः ।। ५४१ ।। श्री धर्मनाथनिर्वाणाच्छ्रीशान्तिस्वामिनिर्वतिः । पादोनपल्यन्यूनेषु सागरेष्वभवत्रिषु ।। ५४२ ॥
जिननिर्वाणम् ।
॥ १४८ ॥