________________
त्रिषष्टिशलाका
पुरुषचरिते 1198811
चक्रे शान्तिजिनस्य मोक्षमहिमा तत्रेन्द्रमुख्यैः सुरैः कालेनार्जितकेवलो गणधरश्चक्रायुधः सोऽपि च । भव्योद्बोधकृते विहृत्य सुचिरं संन्यस्य चायुःक्षये तीर्थे कोटिशिलाभिधे शिवमगात्प्राज्यैः समं साधुभिः ।। ५४३ ॥ षट्खण्डोर्वीतलजयविधावप्यनायासभाजस्त्यक्त्वा लक्ष्मीं तृणमिव च तामप्युपात्तव्रतस्य । चक्रित्वेन प्रथितयशसस्तीर्थकृत्त्वेन चोच्चैर्धीरोदात्तं जयति चरितं धीरशान्तं च शान्तेः ।। ५४४ ।।
܀܀܀
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्री शान्तिनाथचरमभववर्णनो नाम पञ्चमः सर्गः ।
पञ्चमं पर्व समाप्तम् ।
पञ्चमं पर्व
पञ्चमः
सर्गः
श्री शान्तिनाथ जन
चरितम् ।
चक्रायुधनिर्वाणम् ।
।। १४९ ।।