________________
त्रिषष्टिशलाका
पुरुषचरिते
।।१४७ ।।
सखि किं चासि धन्या त्वं यस्यास्ते प्रेयसा समम् । अभूवन् दर्शनालापप्रभृतीनि मुहुर्मुहुः ।। ५१४ ॥ वृत्तान्तो दारुणो मे तु दुःश्रवः श्रूयतां सखि । शङ्खपालोत्सवेऽहं हि समं परिजनैरगाम् ।। ५१५ ।। ताशोकद्रुमस्याधो मनः सर्वस्वतस्करम् । युवानमेकमद्राक्षं प्रत्यक्षमिव मन्मथम् ।। ५१६ ।। सखीहस्तेन ताम्बूलं तस्मै च प्रेषितं मया । रक्षितास्मि च तेनाहं व्यालेभादन्तकादिव ।। ५१७ ।। पुनश्च हस्तिशंकायां त्रस्ताहं ससखीजना । भूयोऽपि च विमार्गन्ती नापश्यं तं क्वचिद्गतम् ।। ५१८ ।। अलिदष्टा मर्कटीव सर्वत्रारतिभाजनम् । तदाप्रभृति जीवामि वराक्येषा कथञ्चन ।। ५१९ ॥ अद्ययावत्तमद्राक्षं स्वप्न एव मनोरमम् । यदि दैवप्रसादेन स प्रत्यक्षो भविष्यति ।। ५२० ।। तं च दुःखं लघूकर्तुं रहस्यं शस्यते मया । अन्यं हि दुःखितं दृष्ट्वा समाश्वसिति दुःखितः ।। ५२१ ॥ तदलं सखि खेदेनानुकूले हि विधौ स्वयम् । प्रेयः समागमो भावी कातरे धैर्यभाग्भव ।। ५२२ ॥ अथापसार्य नीरङ्गीं कामपालोऽब्रवीदिदम् । त्वया यक्षोत्सवे दृष्टपूर्वोऽस्म्येष स ते प्रियः ।। ५२३ ॥ दैवानुकूल्यादधुनैवावयोरिव सङ्गमः । अभवत् कान्ते वसन्तदेवकेसरयोरपि ।। ५२४ ।। अलमालापविघ्नेन विमुञ्च भयनिघ्नताम् । किञ्चिन्निर्गमनद्वारं दर्शयानिन्द्यदर्शने ।। ५२५ ।। एवमुक्त्वा गृहोद्याने पश्चिमद्वारवर्त्मना । मदिरादर्शितेनागात् समं मदिरयैव सः ।। ५२६ ।। पूर्वं पुरेऽस्मिन् वसन्तदेवकेसरयोस्तयोः । आयातयोः संयुयुजे कामपालोऽथ सप्रियः ।। ५२७ ।। १ भयाधीनत्वम् ।
पञ्चमं पर्व
पञ्चमः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
राजवृत्तान्त
कथनम् ।
।। १४७ ।।