________________
त्रिषष्टिशलाकापुरुषचरिते |१४६॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
निष्कारणवयस्यस्यामुष्य बुद्ध्या महात्मनः । अनागतं प्रविष्टोऽस्मि त्वां जिहीर्षुः कृशोदरि ।। ४९९ ।। तदर्पयस्व नेपथ्यं येन त्वद्वेषधार्यसौ । मोहयंस्ते परिजनं त्वद्वत्त्वद्वेश्म गच्छति ।। ५०० ॥ समं त्वत्परिवारेण किञ्चिदस्मिन्नुपेयुषि । देशान्तरमभिप्रेतं यास्यावः श्यामकुन्तले ॥५०१॥ इत्युक्ता निजनेपथ्यं कामपालाय सार्पयत् । पृष्ठे च कामदेवस्य स वसन्तोऽप्यवास्थित ।। ५०२ ।। कामदेवं कामपालोऽप्यर्चित्वा कुसुमादिना । चकार केसरावेषं नीरङ्गीपिहिताननः ।। ५०३ ।। स्वयमुद्घाट्य तद्वारमवलम्ब्य प्रियङ्कराम् । याप्ययानं समारोहद्वाहीकैस्तदुदौह्यत ।। ५०४ ॥ सोऽलक्षितः परिजनैः पञ्चनन्दिगृहं ययौ । सुप्रयुक्तस्य दंभस्य ब्रह्माप्यन्तं न गच्छति ।। ५०५ ।। स प्रियङ्करया यानादवतार्य वधूगृहम् । अनाय्युपावेश्यत च स्वर्णवेत्रासने तया ।। ५०६ ।। स्मरन्ती केसरे तिष्ठ मन्त्रं प्रियसमागमम् । इत्युदित्वा निर्जगाम सा प्रियाकृत् प्रियङ्करा ।। ५०७ ।। सोऽथ तद्वाक्यभावार्थमुपादायास्मरन्मुहुः । मन्त्रं कामरतिसमागमं नाम महामतिः ।। ५०८ ।। केसरामातुलसुता जन्ययात्रानिमन्त्रिता । सा शङ्खपुरवास्तव्या मदिरा तत्र चाययौ ।। ५०९ ।। तस्योपविश्य पुरतः किञ्चिन्निःश्वस्य चाब्रवीत् । केसरे किं सखेदासि विध्यधीनासु सिद्धिषु ।। ५१० ॥ समं वसन्तदेवेन सङ्गमं ते वराङ्गने । अभीष्टमहमश्रौषमपि शबपुरे स्थिता ।। ५११ ॥ अहमात्मानुभूतत्वात् प्रेयोविरहवेदनाम् । जानामि तेन वच्मि त्वां समाश्वासयितुं सखि ।। ५१२ ।। अनभीष्टं करोत्येष प्रतिकूलो यथा विधिः । दशावशेनानुकूलोऽभीष्टं कर्ता तथैव सः ।। ५१३ ॥ १ हर्तुमिच्छुः ।
राजवृत्तान्तकथनम् ।
॥१४६॥