________________
त्रिषष्टिशलाकापुरुषचरिते ||१४५॥
पञ्चमं पर्व पञ्चमः सनः श्रीशान्तिनाथजिनचरितम् ।
अत्रान्तरे ब्राह्मणेन वृद्धेन स्वार्थसङ्गत्तम् । एवमेतन्न संदेह इत्यूचे हृष्टचेतसा ।। ४८४ ।। निबध्य शकुनग्रन्थिं प्रतिपद्य च तद्वचः । वसन्तदेवः सुहृदा सह तेनाविशत् पुरीम् ।। ४८५ ।। तत्राशनादि कृत्वा तौ सायं निर्गत्य वेश्मनः । स्मरदेवकुलं गत्वा तस्थतुः स्मरपृष्ठतः ।। ४८६ ।। तत्र स्थिताभ्यां ताभ्यां तु मङ्गल्यस्तूर्यनिःस्वनः । आयाति केसरा नूनमिति हर्षेण शुश्रुवे ।। ४८७ ॥ सापि स्मरणमात्रेण साध्यमन्त्रं मुहुर्मुहुः । प्रेयःसमागमं नाम स्मरन्ती तत्र चाययौ ।। ४८८ ।। याप्ययानात् समुत्तीर्य विमानादिव नाकिनी । प्रियङ्कराकरात् स्वर्णमयीं पूजामुपाददे ।। ४८९ ।। एकाकिनी प्राविशत् सा स्मरदेवकुलं ततः । आचार इत्यपिदधे तद्वारं निजपाणिना ।। ४९० ॥ भूतले पुष्पपत्रार्थं प्रक्षिप्योद्दिश्य मन्मथम् । मन्मथाक्रान्तहृदया प्राञ्जलिः सैवमब्रवीत् ।। ४९१ ।। चित्ते भवसि सर्वेषां सदा वससि तत्र च । तेन जानासि तद्भावं भगवन् मकरध्वज ।। ४९२ ॥ सर्वभावविदस्तत्किमेतद्युक्तं तव प्रभो । अनभीष्टेन यत् पत्या नियोजयसि मां बलात् ॥ ४९३ ॥ विना वसन्तदेवं मे नान्यत्र रमते मनः । विषकन्या पत्युरिवान्यः पतिर्मरणाय मे ॥ ४९४ ।। वसन्तदेवो मे भर्ता भूयाज्जन्मान्तरेऽपि हि । नमस्कृतोऽसि सुचिरं नमस्कारोऽयमन्तिमः ।। ४९५ ।। इत्युक्त्वा यावदात्मानं तोरणे प्रोद्बबन्ध सा । तावद्वसन्तो धावित्वा पाशग्रन्थिं व्यसूत्रयत् ।। ४९६ ।। कुतोऽयमिति साश्चर्या सव्रीडा सभया च सा । एवं वसन्तदेवेन जगदे कुमुदेक्षणा ।। ४९७ ।। असौ वसन्तदेवोऽस्मि प्रिये प्राणप्रियस्तव । मनोभवाद्याचसे यं परलोकेऽप्यधीश्वरम् ।। ४९८ ।।
राजवृत्तान्तकथनम् ।
।। १४५ ।।