________________
त्रिषष्टिशलाकापुरुषचरिते ||१४४॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिन
चरितम् ।
यावदादत्त हस्तेन ता कन्यां सामि सामजः । लकुटेन मया तावत् पेचके स न्यहन्यत ।। ४६९ ।। कन्यां मुक्त्वा सोऽवलिष्ट पुच्छस्पृष्ट इवोरगः । तं गंजं वञ्चयित्वा च तां चादायान्यतोऽगमम् ।। ४७० ।। विमुक्ता सा मयैकस्मिन् प्रदेशे निरुपद्रवे । सा तु वारितवामेव हृदयान्न मुमोच माम् ।। ४७१ ।। तस्याः परिजनस्तत्र भूयोऽपि हि समाययौ । त्रातां च मदिरां ज्ञात्वा बन्दीवावर्णयच्च माम् ।। ४७२ ।। पुनश्चूतवने तस्मिन् सा सखीभिरनीयत । दैवादापतन्ननिलाकृष्टाश्च करिशीकराः ॥ ४७३ ।। भीता दिशो दिशं यातास्ततः सर्वेऽपि सा पुनः । गता क्वापीत्यजानानः पर्यटं तद्दिदृक्षया ॥ ४७४ ।। तामदृष्ट्वा चिरेणापि शून्यस्वान्त इहागमम् । न म्रिये निरुपायोऽपि किं तु जीवामि पश्य माम् ।। ४७५ ।। केसरायास्तु सम्प्राप्तावुपाया अपि सन्त्यहो । तत्तुल्यदुःखं मित्रं त्वां वच्यज्ञानेन मा मृथाः ।। ४७६ ।। प्रातर्विवाह इत्यद्य स्मरं रतिसमन्वितम् । कल्पोऽयमिति सैकैव पूजयिष्यति केसरा ।। ४७७ ।। ततोऽनागतमेवावां स्मरदेवकुलान्तरे । सखे प्रविश्य तिष्ठावो निभृतं साधकाविव ।। ४७८ ।। तस्यां तत्र प्रविष्टायां तद्वेषग्रहणादहम् । सेव यास्यामि तद्नेहं मोहयंस्तत्परिच्छदम् ॥ ४७९ ।। मयि दूरमपक्रान्ते तामादाय त्वमन्यतः । गच्छेः स्वच्छन्दमिच्छा ते सेत्स्यत्येवमखण्डिता ॥ ४८० ॥ वचसा मुदितस्तेन वसन्तोऽप्येवमब्रवीत् । ममात्र योगः क्षेमं च पश्यामि व्यसनं तव ।। ४८१ ।। तदा च वृद्धब्राह्मण्येष्टदेव्येव कृतं क्षुतम् । ऊचे च कामपालेन ममेह व्यसनं न हि ।। ४८२ ॥ त्वत्कार्येऽस्मिन् प्रेसक्तस्य प्रत्युताभ्युदयो मम । प्रयाति सात्विकानां हि दैवमप्यनुकूलताम् ।। ४८३ ।। १ गजः । पुच्छाग्रभागे । ३ वारितानि वामानि दूषणानि यया सा । ४ गुप्तं यथा तथा । ५ लग्रस्य ।
राजवृत्तान्तकथनम् ।
॥१४४ ॥