________________
पर्वच पर्व
त्रिषष्टिशलाकापुरुषचरिते ||१४३॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
पर्यटश्चासदं शङ्खपुरं नाम महापुरम् । तत्रेक्षितुं शङ्खपालयक्षोत्सवमगामहम् ।। ४५९ ।। तत्र चूतनिकुञान्तः स्मरान्तःपुरिकोपमाम् । अपश्यं कन्यकामेकामेकान्तशुभदर्शनाम् ।। ४६० ।। सानुरागः सानुरागं तयाप्यहमुदीक्षितः । तादृक्पाशैर्बद्ध इव चिरं तत्र स्थितोऽस्मि च ।। ४६१ ।। सखीहस्तेन मेऽदत्त सा ताम्बूलमनिन्दिता । ओष्ठरागस्येव मनोरागस्यापि निबन्धनम् ॥ ४६२ ।। ताम्बूलमाददानस्तद्युज्यते मम किं त्विह । कृतप्रतिकृतिचिकीरिति यावदचिन्तयत् ।। ४६३ ।। तावदालानमुन्मूल्य परितस्त्रोटितान्दुकः । प्रससार महासारः कोऽप्येको व्यालकुञ्जरः ।। ४६४ ।।
॥युग्मम् ॥ प्रतीकारासहै`रात् प्रतिकारैः समुज्झितः । अतिमात्राकुलैर्धावन् महामात्रैरुदीक्षितः ।। ४६५ ॥ आराहस्तान् हस्तिपकान् विहस्तानपहस्तयन् । हस्ती चूतनिकुञ्ज तं क्षणादप्याससाद सः ।। ४६६ ।।
॥ युग्मम् ॥ तस्याः सर्वः पलायिष्ट कन्यकायाः परिच्छदः । आत्मैवोपरि सर्वस्य प्रायेणोपस्थिते भये ।। ४६७ ।। आपतत्यपि तत्रेभे सा पलायितुमक्षमा । हरिणारौ हरिणीव तस्थौ तत्रैव वेपिनी ॥ ४६८ ॥ १ कृतस्य प्रत्युपकर्तुमिच्छन् । २ अन्दुकः पादशृंखला । ३ मत्तो गजः । ४ अत्यन्ताकुलैः । ५ हस्तिपकैः । ६ आरा शस्त्रविशेषो करे येषां तान् पुनः विहस्तान् व्याकुलान् हस्तिपकानपसारणार्थे हस्तं शुण्डादण्डं ऊ/कुर्वन् ।७ सर्वस्योपरि सर्वस्मादधिकः स्वस्यात्मैव । ८ हरिणानां शत्रुः सिंहस्तस्मिन्नागच्छति सतीत्यर्थः ।
राजवृत्तान्तकथनम् ।
|| १४३॥