________________
त्रिषष्टिशलाकापुरुषचरिते ||१४२॥
पञ्चमं पर्व पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
वसन्तदेवस्तच्छ्रुत्वा निर्गत्य नगराबहिः । उद्यानमेकमगमत्त्वरमाणः समीरवत् ।। ४४४ ।। वसन्तदेवो दध्यौ च सान्योद्वाहेन निश्चितम् । अङ्गुलीदर्शनेनेव कूष्माण्ड हा विपत्स्यते ।। ४४५ ॥ यथार्हयोगाविज्ञाभ्यां पितृभ्यां खेदिता चिरम् । मदुद्वाहनिराशा सानूढापि हि मरिष्यति ।। ४४६ ।। तस्याः पुरस्तात्तन्मृत्वा शान्तदुःखो भवाम्यहम् । कः श्रोष्यति प्रियामृत्युं दग्धे पिटकसंनिभम् ।। ४४७ ॥ वसन्तश्चिन्तयित्वैवमशोकतरुमूर्धनि । पाशग्रन्थिं गले दत्वोद्बबन्ध स्वं निषंगवत् ।। ४४८ ॥ ईषद्बद्धे च तत्पाशे निकुञआत् कोऽपि पूरुषः । मा मा भोः साहसं कार्षीरिति जल्पन् समाययौ ॥ ४४९ ।। आरुह्याशोकवृक्षं स तत्पाशग्रन्थिमच्छिदत् । विरुद्धमाकृतेरस्याः कृतं किमिति चाब्रवीत् ।। ४५० ॥ वसन्तोऽपि जगादैवं दैवदग्धस्य मेऽनया । किमिंद्रवारुणस्येवाकृत्या भ्रान्तोऽसि सुन्दर ।। ४५१ ।। प्रियाविरहदुःखान्तहेतुमृत्युं ममेप्सतः । किं त्वया विहितो विघ्नः पाशग्रन्थिं निकृन्तता ॥ ४५२ ।। ततश्च दयितोदन्तं वसन्तस्तस्य पृच्छतः । शशंस शस्यमानं हि दुःखं प्रायः प्रशाम्यति ।। ४५३ ।। स पुमानप्युवाचैवं यद्यप्येवमुपस्थितम् । तथापि युज्यते नेत्थं प्राणत्यागो विवेकिनः ।। ४५४ ।। उपाया एव युज्यन्तेऽभीष्टार्थप्राप्तिहेतवः । उपेये त्वत्र ते सन्ति पशुवन्मा मृथास्ततः ।। ४५५ ।। यस्मिन्नुपेये नोपायो मर्तुं तत्रापि नोचितम् । मृतो न तदवाप्नोति याति कर्मोचितां गतिम् ।। ४५६ ॥ उपायाभावतोऽप्राप्येऽभीष्टे वस्तुनि पर्यटन् । एष जीवामि जीवन् हि नरो भद्राणि पश्यति ।। ४५७ ।। कृत्तिकापुरवास्तव्यः कामपालोऽस्मि नामतः । निरगां यौवनोन्मत्तो देशान्तरदिदृक्षया ।। ४५८ ॥ १ विनक्ष्यति । २ यथायोग्यसम्बन्धकरणेऽज्ञाभ्याम् । ३ तूणीरवत् । ४ प्राप्ये वस्तुनि ।
राजवृत्तान्तकथनम् ।
॥ १४२ ।।